SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४६ ] बृहद्वृत्ति-लघुन्याससंवलिते [पा० २. सू० ४१.] कर्मशक्तिरनभिहिताऽपि प्रधानभुजिक्रियाविषयाऽऽत्मनेपदेनाभिहितेति तद्वत् प्रकाशमाना द्वितीयोत्पत्तौ निमित्तं न भवति, यथा च ग्रामो गन्तुमिष्यते देवदत्तेनेति ग्रामस्य प्रधानेषिक्रियाविषयां कर्मशक्तिमात्मनेपदेनाभिदधताऽप्रधानमभिक्रियाविषयाऽपि कर्मशक्तिरुपभुक्त ति तदभिधानाय द्वितीयाचतुथ्यौं न भवत इति । इह च गौणत्वं क्रियाऽपेक्षं, तेनाऽजां नयति ग्राममित्यादौ 5 ग्रामाद्यपेक्षयाऽजादेः प्रधानत्वेऽपि गौणत्वं न विहन्यत इति । इह तु-कृतपूर्वी कटं, भुक्तपूर्वी प्रोदनम्, व्याकरण सूत्रयतीत्यादौ यः कृतादिभिः कटादेरभिसम्बन्धः स प्रत्ययेऽर्थान्तराऽभिधायिन्युत्पन्ने कृतादीनामुपसर्जनत्वान्निवर्तते, क्रियया तु सह सम्बन्धोऽस्तीति व्याप्यत्वाद् द्वितीया भवति ।। ४० ।। न्या० स०--कर्मणि। शब्दप्रयोगायोगादिति-अर्थप्रत्यायनाय हि लोके शब्द:10 प्रयुज्यते, स चार्थो यदा शब्दान्तरेण प्रतिपादितः स्यात् तदा प्रयोजनाभावाच्छब्दान्तरप्रयोगो न कर्तव्यः। अनियताधाराणामिति-नहि भीष्मत्वादीनां कर्ट एवाधारः कि त्वन्येऽपि। न केवला प्रकृतिरिति-नापदं प्रयुखोतेति न्यायात् । तदेकयोग-क्षेमत्वादितिअलब्धलाभो योगः, लब्धार्थपरिरक्षणं क्षेमः, तस्य देवदत्तादेर्यावको योग-क्षेमौ तयोर्भावः । कर्मादिसामान्यमिति-करणादिक्रियामात्रयोग्यमित्यर्थः । तत्रापीति-सामान्यकर्माभि-15 धानेऽपि । अन्तर्भूत इति-तत्राभिहितोऽपि कश्चिन्नान्तर्भवति, यथा-राज्ञः पुरुष इत्यत्र वाक्ये षष्ठया सम्बन्धोऽभिधीयते, न तु क्वचिदन्तर्भावमुपयातीति द्वयोरुपादानम् । तत्रेति-कर्मादिशक्तियुक्त द्रव्य इत्यर्थः । स्वरूपकालभिन्नायामिति-कृताहृतेत्यादिक्रियापेक्षया स्वरूपेण कालेन च पश्याहरेत्यादिका क्रिया भिन्ना। सव्यापारतयेतिकारकत्वेनेत्यर्थः । यथायथमिति-या यस्य स्वा इत्यर्थः । प्रधानाप्रधानक्रियेति-20 एकस्मिन् वाक्ये यूगपदनेकप्रधानक्रियाणामसम्भवात् प्रधानाप्रधानक्रियाविषयैवानेका शक्तिरिति तत्क्रियापेक्षया शक्त रपि गुरगप्रधानभावो भवतीत्यत पाह-प्रधानशक्त्यनुरोधादित्यादि। अत्रैवोदाहरणान्तरं दर्शयति-यथा च ग्रामो गन्तुमिष्यत इति । ननु गौरणानाम्नः कर्मणि द्वितीयेत्युक्तम, अजां नयति ग्राममित्यादौ तु ग्रामाद्यपेक्षया अजादे: प्रधानत्वान्न ततो द्वितीया प्राप्नोतीत्याह-इह चेति । क्रियापेक्षमिति-आख्यातपदेना-25 समानाधिकरणं गौणमिति गौणत्वस्य द्वयोरपि कर्मणोर्भावात् क्रियापेक्षं गौणत्वमाश्रितम् । न विहन्यत इति-तेन गौणत्वाजाशब्दादपि द्वितीया सिद्धा ।। २. २. ४० ।। क्रियाविशेषणात् ।। २. २. ४१ ॥ क्रियाया यद् विशेषणं तद्वाचिनो गौणानाम्नो द्वितीया भवति । मृदु पचति, स्तोकं पचति, मन्दं गच्छति, सुखं शेते, दुःखं जीवति, सयुक्तिक भाषते,30
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy