________________
२१२ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पा० २. सू० ३.]
त्रिविधस्यापि यथाक्रममवान्तरव्यापारा:-निवर्तते, विकुरुते, आभासमुपगच्छतीत्यादयः ।
त्रिविधमप्येतत् पुनस्त्रिविधम्-इष्टम् १, अनिष्टम् २, अनुभयं ३ च; यदवाप्त क्रियाऽऽरभ्यते तदिष्टम्-कटादि; यद् द्विष्टं प्राप्यते तदनिष्टम्अहिं लङ्घयति, विषं भक्षयति, कण्टकान् मृद्नाति, चौरान् पश्यति; यत्र नेच्छा 5 न च द्वेषस्तदनुभयम्-ग्रामं गच्छन् वृक्षमूलान्युपसर्पति, वृक्षच्छायां लङ्घयति । पुनस्तत् कर्म द्विविधं प्रधानेतरप्रभेदात्, तच्च द्विकर्मकेषु धातुषु दुहि-भिक्षिरुधि-प्रच्छि-चिग्-अंग्-शास्वर्थेषु याचि-जयति-प्रभृतिषु च भवति-दुह्यर्थ-गां दोग्धि पयः, गां स्रावयति पयः, गां क्षारयति पयः; भिक्ष्यर्थपौरवं गां भिक्षते, पौरवं गां याचते, चैत्र शतं मृगयते, चैत्रं शतं प्रार्थयते; एवं-10 गामवरुणद्धि ब्रजम् ; छात्रं पन्थानं पृच्छति, छात्रं वाक्यं चोदयति ; वृक्षमवचिनोति फलानि; शिष्यं धर्म ब्रूते, शिष्यं धर्ममनुशास्ति; क्रुद्धं याचते शमावस्थाम, अविनीतं याचते विनयम्, याचिरिहानुनयार्थः, तेन भिक्ष्यर्थाद् भेदः; गर्गान् शतं जयति, गर्गान् शतं दण्डयति, ग्रामं शाखां कर्षति, काशान् कटं करोति, अमृतमम्बुनिधिं मथ्नाति, अजां ग्रामं नयति, ग्रामं भारं हरति,15 उपसरजमश्व मुष्णाति; ग्राम भार वहति, शतानीकं शतं गृह्णाति, तण्डुलानोदनं पचति, अत्र यदर्थं क्रियाऽऽरभ्यते तत् पयःप्रभृति प्रधानं कर्म, तत्-सिद्धये तु यदन्यत् क्रियया व्याप्यते गवादि तदप्रधानम् ; यदा तु पयोऽर्था प्रवृत्तिरविवक्षिता तदा प्रधानस्यासन्निधानाद् गवादेरेव प्राधान्यम्, यथाआश्चर्यो गवां दोह इति ।
20 तत्र दुहादीनामप्रधाने कर्मणि कर्मजः प्रत्ययो भवति-गौ? ह्यते दुग्धा दोह्या वा पयो मैत्रेण, याच्यते पौरवः कम्बलम्, अवरुध्यते गां व्रजः, पृच्छयते धर्ममाचार्यः, भिक्ष्यते गां चैत्रः, अवचीयते वृक्षः फलानि, उच्यते शिष्यो धर्मम, शिष्यते शिष्यो धर्मम्, जीयते शतं चैत्रः, गर्गाः शतं दण्ड्यन्ताम्, “देवासुरैरमृतमम्बुनिधिर्ममन्थे” इत्यादि । नी-वहि-हरति-प्रभृतीनां तु प्रधाने कर्मणि-25 नीयते नीता नेतव्या वा ग्राममजा, उह्यते भारो ग्रामम्, ह्रियते कुम्भो ग्रामम्, कृष्यते ग्राम शाखेति ।