________________
[पा० १. सू० ६१.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने द्वितीयोऽध्यायः
[ १७५
यदि तु सप्तमपादोक्तक्रमेण 'ष-ण' इति क्रियते तदा णत्वमसद् द्रष्टव्यम्, पूर्वं कृतस्य णत्वस्यासत्त्वात् प्रनष्ट इति सिद्धम् , न च 'श' इति व्यावृत्त्या पूर्वमेव न भविष्यति, धातोः पश्चादुपसर्गसंबन्ध इति मते व्यावृत्तेश्चरितार्थत्वाद् 'अभिषुणोति' इत्यादि न सिद्धयति, "उपसर्गात् सुग्०" [२. ३. ३६.] इत्यनेन विहितस्य षत्वस्य णत्वे परेऽसत्त्वात्, तदाभिषुणोतीत्यादि न सिध्यति, “उपसर्गात् सुग्०" [२. ३. ३६.] इत्यनेन विहितस्य षत्वस्य 5 णत्वे परेऽसत्त्वात् "रघुवर्णात्" [२. ३. ६३.] इत्यनेन षकारात् विधीयमानं णत्वं न स्यात् । रग-षशास्त्रं वेति-अयमभिप्रायः-शास्त्रस्यवासिद्धत्वं युक्तम्, कार्यासिद्धत्वाश्रयणे हि यथा देवदत्तस्य हन्तरि हतेऽपि न पुनर्देवदत्तस्य प्रादुर्भावो भवति तथा कार्येऽसिद्धत्वमापादितेऽपि न प्रकृतेः पुनः प्रत्यापत्तिर्भवति, ततः पूष्ण इत्यत्र णत्वस्यासिद्धत्वेऽपि नकारप्रत्यापत्तेरभावान्नानन्ता प्रकृतिरिति तनिबन्धनोऽनोऽकारलोपो न स्यात्, शास्त्रा-10 सिद्धत्वे त्वकारलोपशास्त्रमेव तावत् प्रवर्तते, न णत्वशास्त्रमिति । अधिकार इति-अधिउपरि, क्रियते-अनुवर्त्यत इत्यधिकारो घनि ।। २. १. ६० ।।
क्ता देशोषि ॥ २. १. ६१ ॥
ककारेण उपलक्षितस्य तकारस्य स्थाने य प्रादेशः स षकारादन्यस्मिन् परे कार्ये स्यादिविधौ च कर्त्तव्येऽसन द्रष्टव्यः । क्षामिमान, अत्र ":-शुषि-15 पचो म-क-वम्” [ ४. २. ७८. ] इति क्तादेशस्य मकारस्यासत्त्वात् "मावर्णान्त०" [२. १. ६४.] इत्यादिना मतोर्मो वो न भवति ; शुष्किको, अत्र ककारस्यासत्त्वात् “स्वज्ञाज०" [२. ४. १०८.] इत्यादिनेत्वविकल्पो न भवति, “अस्यायत्तत्क्षिपकादीनाम्" [२. ४. ११०.] इति तु नित्यमेव इत्वं भवति; पक्वम्, अत्र वत्वस्यासत्त्वाद् धुटि कत्वं भवति; बुद्ध्वा, दग्ध्वा, अत्र20 क्तादेशस्य धकारस्यासत्त्वात् “ग-ड-द-बादेः०" [२. १. ७७.] इत्या दिना आदेश्चतुर्थो न भवति । स्यादिविधौ च-लून्युः, पून्युः, अत्र क्तादेशस्य नत्वस्यासत्त्वात् त्याश्रित उर् भवति । अषीति किम् ? वृक्णः, वृक्णवान्, अत्र क्तादेशस्य नत्वस्य सत्त्वात् “यजसृज०" [२. १. ८७.] इत्यादिना धुण्निमित्तः षो न भवति, कत्वे त्वसत्त्वात् तद् भवत्येव । परे स्यादिविधौ चेत्येव-लग्नः,25 मग्नः, अत्र स्यादिविधौ पूर्वसूत्रकार्ये "अघोषे प्रथमोऽशिट:" [१. ३. ४०.] इति प्रथमत्वे नत्वस्यासत्त्वाभावादघोषनिमित्तः प्रथमो न भवत्येव; एवं क्षामेण, शुष्केणेत्यादौ पूर्व णत्वं प्रति मत्व-कत्वयोः सत्त्वात् तकारेण व्यवधानं नास्तीति णत्वं भवति ॥ ६१ ।।