SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४० ] बृहवृत्ति-लघुन्याससंवलिते [पा० १. सू० ४-५.] अतिजरशब्दात् प्रवृत्तेनाप्प्रत्ययेन जराशब्दो व्यवधीयते । जारः, जारेयः, जराया अयम् "तस्येदम्" [ ६. ३. १०४. ] इत्यण , जराया अपत्यम् "द्विस्वरादनद्या०" [ ६. १. ७१. ] इति एयण ॥३॥ अपोऽद् भे ॥ २. १. ४ ॥ 'अप्' इत्येतस्य स्वसम्बधिन्यन्यसम्बन्धिनि वा भकारादौ स्यादौ परतः 5 'अद्' इत्ययमादेशो भवति । अद्भिः, अद्भयः, स्वद्भयाम्, अत्यद्भयाम् । भ इति किम् ? आपस्तिष्ठन्ति, अपः पश्य, अपाम्, अप्सु । स्यादावित्येवअब्भक्षः ।। ४ ।। न्या० स०-अपोऽद् मे इति । स्वद्भ्याम्-शोभना अतिशयिता वा आपो ययोरिति विग्रहे "पूजास्वतेः प्राक् टात्" [७. ३. ७२. ] इति समासान्तप्रतिषेधे भ्यामि10 सत्यपि तदन्तग्रहणे निर्दिश्यमानस्यादेशा भवन्ति* इत्यप एवादेशः । अब्भक्ष इति"शीलि-कामि०" [ ६. १. ७३. ] इति णः ।। ४ ।। आ रायो व्यञ्जने ॥ २. १. ५॥ स्वसम्बन्धिन्यन्यसम्बन्धिनि वा व्यञ्जनादौ स्यादौ परे रैशब्दस्याऽऽकारोऽन्तादेशो भवति । राः, हे राः ! , अतिराः, राभ्याम् ३, राभिः,15 राभ्यः ३, रासु; एकदेशविकृतस्यानन्यत्वाद् अतिराभ्यां कुलाभ्याम्, अतिरासु कुलेषु । व्यञ्जन इति किम् ? रायौ, रायः । स्यादावित्येवरैसूत्रम्, रैभयम् । स्भीत्येव सिद्धे व्यञ्जनग्रहणमुत्तरार्थम् ।। ५ ।। न्या० स०-आ रायो इत्यादि । प्राकारस्यैकवर्णत्वात् “षष्ठ्या अन्त्यस्य" [७. ४. १०६. ] इति रैशब्दान्तस्यैव भवति। स्भीत्येव सिद्ध इति-आमि तु रायमति-20 कान्तानि यानि तेषां "क्लीबे" [२. ४. ६७. ] इत्यनेन ह्रस्वत्वे सति सन्निपातलक्षण०* इत्यादिन्यायाद् इकाररूपं ह्रस्वमाश्रित्य समुत्पन्नो नाम् तद्विघाताय नोत्सहते, तहि "दी? नामि०" [ १. ४. ४७. ] इत्यादिना दीर्घोऽपि न प्राप्नोति, सत्यम्-तदा अनित्यत्वादस्य न्यायस्य भवत्येव दीर्घः, यतो न्याया हि स्थविरयष्टिन्यायेन प्रवर्तन्ते । उत्तरार्थमिति-यद्येवं तत्रैव क्रियताम्, किमत्रानेन सन्देहास्पदेन ? नैवम्-केचित्25 सन्निपात०% न्यायमनित्यमाश्रित्य 'अतिराणाम्' इत्याकारमपीच्छन्ति, तन्मतसंग्रहार्थं व्यखनग्रहणमिहार्थमपि, तेन स्वमतेऽपि सम्मतम् ।। ५ ।।
SR No.034255
Book TitleSiddh Hemhandranushasanam Part 01
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages658
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy