________________
[पा० ३. सू० ४५-४६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७६
उत्कन्दको रोग इति ? पृषोदरादित्वाद् भविष्यति ।। ४४ ।।।
न्या० स०–उदः स्थेत्यादि । ननु उदस्थादित्यत्र सकारलोपः कस्मान्न भवति ? न च वाच्यम्-अडागमेन व्यवधानम्, यतोऽङ्गिनोऽङ्ग व्यवधायकं न भवति, सत्यम्आवृत्य उद इति पदं स्था-स्तम्भः सकारस्य च सम्बन्धनीयम् 'उदस्थात्, उदस्तभत्' इत्यनयोः सिद्धयर्थन्, उदस्थादित्यत्राडागमात् पूर्वमन्वित्यधिकाराद् न भवति, अडागमे 5 च सति "पञ्चम्या निदिष्टे परस्य" [ ७.४. १०४.1 तच्चानन्तरस्यैव, न व्यवहितस्येति न भवति । उत्स्थान इत्यत्र स्थानस्य विशेषणम् उत्, न तु तिष्ठतेरिति ॥ ४४ ।।
तदः से स्वरे पादार्था ॥ १. ३. ४५ ॥
तदः परस्य सेः स्वरे परे लुग् भवति, सा चेत् पादार्था-पादपूरणी भवति । 'सैष दाशरथी रामः, सैष राजा युधिष्ठिरः' । 'सौषधीरनुरुध्यते' ।10 पादार्थेति किम् ? 'स एष भरतो राजा' ।। ४५ ।।
न्या० स०-तदः सेरित्यादि । तद इत्यनेन तदादेशस्य सस्य ग्रहणम्, अन्यथा व्यञ्जनात् सिलोपः सिद्ध एव, अनुकरणत्वात् तद इत्यत्र त्यदाद्यत्वाभावः, शब्दार्थानुकरणे हि प्रकृतिवदनूकरणम् इति न्यायः प्रवर्तते, शब्दानुकरणे तु नेति; कथमिदमिति चेत् ? "तदः से: स्वरे०" [ १. ३. ४५. ] इति “परिव्यवात् क्रियः"15 [ ३. ३. २७. ] इति सूत्रसूत्रणात् । पादाय इयम्, पादोऽर्थो यस्यामिति वा पादार्था । ननु "सोऽहं तथापि तव०" [ भक्तामरस्तोत्रे श्लो० ५. ] इत्यस्मिन् प्रयोगे "तदः से: स्वरे पादार्था" [ १. ३. ४५. ] इत्यनेन प्रतिष्णातेन निमित्तस्वरे परत्रावतिष्ठमाने सति सेलु क् कथं न भवति ? उच्यते-“तदः से: स्वरे०" [ १. ३. ४५. ] इति सूत्रं “रोर्यः" .[ १. ३. २६. ] सामान्यस्वरनिमित्तसूत्रविषये “सो रुः" [ २. १.७२. ] इत्यस्य बाधकम्,20 न पुनः स्वरविशेषनिमित्तस्य "अतोऽति रोरुः" [ १. ३. २०. ] इत्यस्य विषये, कुतः ? सर्वत्रापि विशेषेण सामान्यं बाध्यते, न सामान्येन विशेषः इति न्यायात् ।। ४५ ।।
एतदश्च व्यञ्जमेनग-नसमासे ॥ १. ३. ४६. ॥
एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुग भवति, अकि नसमासे च सति न भवति । एष ददाति, स ददाति, परमैष करोति, परमस ददाति ।25 एतदश्च ति किम् ? को दाता, यो धन्यः । सेरित्येव ? एतौ गच्छतः, तौ तिष्ठतः । अनुबन्धग्रहणादिह न भवति-एतेषु चरति, तेषु याति । अनग्नसमास इति किम् ? एषकः करोति, सको याति, *तन्मध्यपतितस्तद्ग्रहणेन