________________
[ पा० ३. सू० १२. ] श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
सकारान्तादेशो भवति, अनुस्वाराऽनुनासिकौ च पूर्वस्य । काँस्कान्, कांस्कान् । द्विरिति किम् ? कान् कान् पश्यति, अत्रैकः किं प्रश्नेऽन्यस्तु क्षेपे कानीति किम् ? कांस्कान् पश्यति । रस्याधिकारेणैव सिद्धे सविधानं रुत्वबाधनार्थम्
।। ११ ।।
[ ६१
न्या० स०--- - द्वि: कान इत्यादि - अनुकार्याऽनुकरणयोर्भेदस्य विवचितत्वात् शसन्ता- 5 नुकररणादपि षष्ठी, तथा सप्तम्यपि । 'द्विः' इति कान्सत्कभवनक्रियापेक्षया त्रियाविशेषणमिदम् । प्रथात्र सकारे कृते "सो रु :" [ २.१.७२. ] इति रुत्वं कथं न भवतीत्याह——रस्येत्यादि-प्रयमर्थ:- यदि सस्य रुत्वं स्यात् तदा रेफाधिकारेणैव सिद्धम्, किं सविधानेन ? प्रक्रियागौरवं च परिहृतं भवति । अथात्रानुस्वारस्य व्यञ्जनत्वात् “पदस्य" [२. १. ८. ] इति संयोगान्तलोपः कथं न भवति ? नैवम् तत्र मुख्यव्यञ्जनसंयोगस्यै - 10 वाऽऽश्रितत्वात्, अस्य तु सामर्थ्यप्रापितत्वेनामुख्यव्यञ्जनत्वात् ।। ११ ।
स्सटि समः ॥ १. ३. १२ ॥
समित्येतस्य स्सटि परे सकारो ऽन्तादेशो भवति, अनुस्वाराऽनुनासिकौ च पूर्वस्य । सँस्स्कर्ता, संस्स्कर्ता; सँस्स्कर्तुम्, संस्स्कर्तुम् । स्सटीति किम् ? संकृतिः । संचस्कारेत्यत्र तु व्यवधानान्न भवति । सम इति किम् ? उपस्कर्ता 115 ।। १२ ।।
न्या० स० -- स्सटीत्यादि । 'समः' इति प्रादिपठितस्यैव समो ग्रहणम्, न तु “षम ष्टम वैक्लव्ये” इत्यस्य विजन्तस्य "संस्कृते भक्ष्ये” [६.२.१४०. ] इत्यादिज्ञापकात् । अनुस्वारस्य व्यञ्नत्वाद् “धुटो धुटि स्वे वा" [१.३.४८.] इति पक्षे सकारलोपे द्विसकारमेकसकारं च 'संस्कर्ता, संस्स्कर्ता' इवि रूपद्वयं द्रष्टव्यम् । संकृतिरित्यत्र गर्गादि-20 पाठात् सट् न । संचस्कारेति न चात्र 'सम् स्कृ' इति स्थिते प्रत्ययोत्पत्तेः प्रागेवादेशप्रसङ्गः इति वाच्यम्, यतोऽत्र परत्वान्नित्यत्वाद् धातुमात्राश्रयेणाऽन्तरङ गत्वाच्च प्रथममेव प्रत्ययस्ततस्तदाश्रितं कार्यं द्वित्वम्, तेन च सटो व्यवधानमिति । ननु "घोषे शिट : " [ ४. १. ४५. ] इति लुप्तस्य सस्य "स्थानीव ० [ ७.४. १०६ ] इति स्थानित्वे सति कथं न भवति, न च वाच्यमवर्णविधौ स्थानित्वमिति, स्सटीति वर्णसमुदायाश्रयणेन 25 वर्णविधित्वाभावात्, न-स्सडिति सकारादिः सद् स्सट् इति कृते वर्णविधित्वात् । ननु निमित्ताभावे ० इति न्यायेन द्वित्वेन समो व्यवधानात् कृग: सडभावः प्राप्नोति, नैवम्- स्वाङ ्मगमव्यवधायकम् इति न्यायाद् द्वित्वरूपस्य स्वाङ गस्य कृगं प्रति व्यवधायकत्वायोगादिति ॥ १२ ॥
".