________________
10
परस्मैधातवः १२२-१४१] स्वोपझं धातुपारायणम् । ते सेट्त्वाद् न गत्वम् । उणादौ "भी-वृधि-"(उ० ३८७) इति रे वज्रः॥ व्रज । व्रजति । “वद-व्रज-" ४।३।४८। इति वृद्धौ अब्राजीत् । यङि वाव्रज्यते । यङ्लुपि वावक्ति वाव्रजीति । घ्यणि परिव्राज्यम् , क्ते सेट्वाद् न गत्वम् । णके परिव्राजकः । “दिद्युद्दद्-" ५।२।८३। इत्यादिनिपातनात् क्विपि परिव्राट् । “आस्यटि-" ५।३१९७। इति क्यपि ज्या प्रव्रज्या परिव्रज्या । "गोचर-" ५।३।१३१॥ इति निपातनाद् घे व्रजन्ति. तस्मिन्निति व्रजः । वज व्रजण मार्गणसंस्का- 5 र-गत्योः वाजयति वाजयति॥ पस्ज। “षः सो-" २।३१९८। इति षस्य षत्वे “सस्य शषौ" १।३।६१। इति सस्य शत्वे "तृतीयस्तृतीय-"१।३।४९। इत्यासन्नत्वाच्छस्य जे सज्जति । गौ सनि षोपदेशत्वात् "णि-स्तोरेवा-" २।३।३७ इति षत्वे सिषज्जयिषति । “णि-स्तोरेवा-" २।३।३७। इति नियमात् सनि षत्वभूते न षत्वम् , सिसजिषति । अचि सज्जः । ते सज्जितः । क्वचिदात्मनेपदमपि दृश्यते--
प्रकृतेर्गुणसम्मूढाः, सज्जन्ते गुणकर्मसु । [भगवद्गीता अ० ३ श्लो० २९] - 'सज्जमानमकार्येषु" इति ॥ १३९ अज क्षेपणे च । चकाराद्गतौ । अजति । "अघक्यप्-" ४।४।२। इति वींभावे विवाय, संविवाय । “त्रने वा” ४।४।३। वींभावे प्राजिता प्रवेता, अत्रानुस्वारेत्त्वात् नेट् ; प्राजनो दण्डः, प्रवयणो दण्डः । “क्रियाव्यति-"३।३।२३। इति गत्यर्थवर्जनाद् गतौ नात्मनेपदम् , व्यत्यजन्ति ग्रामम् ; 1b क्षेपणे त्वात्मनेपदमेव व्यत्यजन्ते । “अघञ्-" ४।४।२। इत्यशिद्विषये एव वींभावे व्यञ्जनादित्वाद् यङपि, वेवीयते । घनादिवर्जनाद् घनादौ वीभावाभावः । घभि समाजश्छात्राणाम् , उदाजः खगानाम् । "समज-" ५।३।९९। इति क्यपि समज्या सभा । “समुदोऽजः-" ५।३।३०। इत्यलि समजः पशुसङ्घः, उदजः पशुप्रेरणम् । अचि अजः अजा । “ललाट-वात-" ५।१।१२५। इति खशि वातमजन्ति वातमजा मृगाः। “गोचर-सञ्चर-" ५।३।१३१॥ इति निपातनाद घे व्यजः। उणादौ "प्या-धा-" 20 (उ० २५८) इति ने वेनः प्राज्ञः । “यम्यजि-"(उ० २८८) इत्युने वयुनश्चन्द्रः । “विपिना-ऽजिना-" (उ० २८४) इति निपातनादिने अजिनम् । "ऋज्यजि-" (उ० ३८८) इति किति रे वीरः । म्थविरादिनिपातनादिरे ,अजिरम् । “मी-ज्यजि-" (उ० ४३९) इति सरे वेसरः । “पादाच्चात्यजिभ्याम्" (उ० ६२०) इति णिदिः आजिः; पदाजिः पत्तिः, “पदः पादस्याऽऽज्यातिगोपहते" ३।२।९५। इति पादस्य पदादेश आजीति निर्देशाच्च व्यादेशाभावः। “अजि-स्था-" (उ० ७६८) इति णौ वेणुः। 25 "अळ्यजि-" (उ० ९६६) इत्यसि गादेशे च अगः क्षेमम् ॥
१४० कुजू १४१ खुजू स्तेये । कोजति, खोजति। ऊदित्त्वात् क्त्वायां वेटौ, कुक्त्वा, खुक्त्वा; सेटि क्त्वि "वौ व्यञ्जना-"४।३।२५। इति क्त्वो वा कित्त्वे कुजित्वा कोजित्वा, खुजित्वा खोजित्वा ।।
१ "स्थविर-पिठिर-स्फिरा-ऽजिरादयः" (उ०४१७) इति सूत्रम् ॥