SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीहेमचन्द्रविरचिते [ था० ४०९मृषति, अदन्तत्वाद् न गुणः। अर्चि-अदि-शुन्धि-तपि-वदि-मृषयः षडपि परस्मैपदिन इति भीमसेनीयाः ॥ ४१० शिषण असर्वोपयोगे'। असर्वोपयोगः अनुपयुक्तत्वम् , शेषयति, शेषति । शिष्लँप् विशेषणे [ ६।२० ], शिनष्टि । विपूर्वोऽतिशये, अतिशय उत्कर्षः, विपूर्वः शिषिः अतिशये युजादिः, विशेषयति, विशेषति । क्ये 'विशेष्यते । सिचि व्यशेषीत् । शिष्लुप् विशेषणे [ ६२० ], विशिनष्टि, व्यशिषत् ॥ . ' ४११ जुषण परितर्कणे' । परितर्पण इत्येके । जोषयति, जोषति । जुषैति प्रीतिसेवनयोः [ ५।१५८ ], जुषते ॥ * ४१२ धृषण प्रसहने' । प्रसहनम् अभिभवः । वर्षयति, धर्षति । "ऋदुपान्त्याद्०" ५।१४१ इति क्यपि प्रधृष्यम् । आदिदयमित्येके, तन्मते " नवा भावाऽऽरम्भे" ४।४।७२ इति क्तयोर्वा नेट्, प्रधृष्टमनेन । " न डी० " ४।३।२७ इति कित्त्वाभावे प्रधर्षितमनेन, प्रधृष्टः, प्रधृष्टवान् , प्रधर्षितः, प्रधर्षितवान् । निषाट प्रागल्भ्ये [ ४।२७], धृष्णोति ॥ । अथ सान्तः ॥ ' ४१३ हिसुण हिंसायाम् '। उदिचाने हिंसयति, हिंसति । हिसुपु हिंसायाम् [६।२२ ], हिनस्ति ॥ अथ हान्तौ ॥ '४१४ गर्हण विनिन्दने' । गर्हयति, गर्हति । गर्हि कुत्सने [ ११८६० ], गहते ॥ ' ४१५ षहण मर्षणे' । “पः मो०” २।३।९८ इति सत्वे साहयति । 'सहति कलभेभ्यः परिभवम् ' ( सुभाषित० ६३१)। पहि मर्षणे [१।९९०), सहते ॥ १. विशि इति मु. पा० ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy