SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३६७ ] धातुपारायणे चुरादयः (९) [ ३४९ "३६२ स्पृहण ईप्सायाम् ' । " स्पृहेप्प्यं वा" २।२।२६ इति व्याप्यस्य वा संप्रदानत्वे पुष्पेभ्यः स्पृहयति । अकर्मकत्वाद् " गत्यर्था०" ५।१।११ इति कर्तरि ते पुष्पेभ्यः स्पृहितो मैत्रः, पक्षे पुष्पाणि स्पृहयति । कर्मणि क्ते पुष्पाणि स्पृहितानि मैत्रेण । अपस्पृहत् । “शीश्रद्धा०" ५।२।३७ इत्यालो " आमन्त०" ४।३।८५ इति णेरयि स्पृहाशीलः स्पृहयालुः । “भीषिभूषि०" ५।३।१०९ इत्यङि स्पृहा । उणादौ "श्रुदक्षि०" ( उ० ३७३) इति आय्ये स्पृहयाय्यं घृतम् ॥ अथ क्षान्तः ॥ '३६३ रूक्षण पारुष्ये' । रूक्षयति । डे अरूक्षत् । अचि रूक्षः । अनटि विलक्षणम् । क्त्वो यपि विरूक्ष्य ॥ अथाऽदन्तेष्वेव कुहणिमभिव्याप्याऽऽत्मनेपदिनः, तत्र गान्तः ॥ '३६४ मृगणि अन्वेषणे'। इदिचाद् " इङितः०" ३।३।२२ इति आत्मनेपदे मृगयते । “ मृगयेच्छा०" ५।३।१०१ इति शे निपातनाद् मृगया । क्ते मृगितम् ॥ अथ थान्तः ॥ . '३६५ अर्थणि उपयाचने ' । अर्थयते। पूर्वाचार्यानुरोधाददन्तेष्वस्य पाठः, एवं सत्रिगोरपि । केचित्तु अदन्तपाठवलाद् अतो [४।३।८२] लुकं बाधित्वाऽनुपान्त्यस्यापि “णिति" ४।३५० इति वृद्धौ " अतिरी." ४।२।२१ इति पौ अर्थापयते, सत्रापयते, गर्वापयते इत्याहुः । डे आतिथत । सनि अतिथयिषते । क्ते अर्थितम् । अलि अर्थः । “णिवेत्ति०" ५।३।१११ इत्यने प्रार्थना ॥ अथ दान्तः ॥ — ३६६ पदणि गतौ' । पदयते । उ अपपदत् । पदिंच गतौ [३।११४], पद्यते । णिगि उपपादयति ॥ अथ मान्तः ॥ '३६७ संग्रामणि युद्धे' । संग्रामयते शरः । असंग्रामयत । सनि अपोपदेशत्वात् पत्वाभावे सिसंग्रामयिषते । अलि " पुग्नाम्नि" ५।३।१३० इति आधारे घे वा संग्रामः । क्त्वि संग्रामयित्वा । अयं परस्मैपदीत्येक', संग्रामयति ॥ १. क्षीरस्वामी, (क्षी. त. पृ. ३२०) ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy