SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३४६] आचार्यश्रीहेमचन्द्रविरचिते [धा० ३३४ '३३४ मूत्रण प्रसवणे'। मूत्रयति । डे अमुमूत्रत् । “ अव्यति० " ३।४।१० इति यङि मोमूत्र्यते ॥ '३३५ पार ३३६ तीरण कर्मसमाप्तौ' । पारयति, अपपारत् । अलि पारम् । “ साहिसाति" ५।१५९ इति शे पारयः । ते पारितम् । “णिवेत्ति" ५।३।१११ इत्यने पारणा ॥ '३३६ तीरण' । तीरयति । ॐ अतितीरत् । अचि अलि वा तीरम् ॥ '३३७ का ३३८ गात्रण शैथिल्ये। कत्रयति । उ अचकत्रत । क्त कत्रितः । अयं कण इत्येके, कर्बयति, कत्रितम् । चन्द्रस्तु कर्तण इति ऋदितं मन्यते, कर्तयति । कत्थण इति देवनन्दी; कत्थयति ॥ ' ३३८ गात्रण' । गात्रयति । डे अजगात्रत् ।। '३३९ चित्रण चित्रक्रियाकदाचि दृष्ट्योः' । चित्रयति, आलेख्यं करोति, कदाचित् पश्यति वा इत्यर्थः । वैचित्र्यकरणार्थोऽयं, न चित्रक्रियार्थ इत्यन्ये, तन्मते चित्रयति, वैचित्र्यं संपादयति, कदाचित् पश्यति वेत्यर्थः । ते चित्रितम् । "णिवेत्ति०" ५।३।१११ इत्यने विचित्रणा ॥ ' ३४० छिद्रण भेदे ' । छिद्रयति । उ अविच्छिद्रत् । अचि छिद्रम् ।। . '३४१ मिश्रण संपर्चने' । संपर्चनं श्लेष: । मिश्रयति । ढे अमिमिश्रत् । अचि मिश्रः ॥ '३४२ वरण ईप्सायाम् ' । वरयति कन्याम् । अववरत् । अचि वरः ॥ ' ३४३ स्वरण आक्षेपे' । स्वरयति । असस्वरत् । आक्षेपादन्यत्र औस्त्र शब्दोपतापयोः [ ११२१ ], स्वरति । णिगि स्वारयति । ' ३४४ शारण दौर्बल्ये ' । तालव्यादिः, शारयति । डे अशशारत् । शर इति नन्दी, अशशरत् ॥ ३४५ कुमारण क्रीडायाम् ' । कुमारयति । डे अचुकुमारत् । अचि कुमारः; कुत्सितो मारोऽस्येति, "कमेरत उच्च" ( उ० ४०९) इत्यारे कमतेर्वा । लान्तोऽयमित्येके, कुमालयति ॥ १. दुर्गः, (क्षी. त, पृ. ३१८) ॥ २. क्षीरस्वामी, (क्षी. त. पृ. ३२०) ।
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy