SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ३४४ ] आचार्यश्री हेमचन्द्रविरचिते [ धा० ३१६ अथ दान्तौ ॥ " ३१६ छेद द्वैधीकरणे ' । छेदयति । ङे अविच्छेदत् । क्ते छेदितम् । यपि विच्छेद्य ॥ ' ३१७ गदणू गर्जे ' । गर्जो मेघशब्दः । गदयति । ङे अजगदत् । गद व्यक्तायां वाचि [ १।२९७ ], गदति । णिगि गादयति । हे अजीगदत् ॥ अथ धान्तः ॥ ' ३१८ अन्धणू दृष्ट्युपसंहारे ' । अन्धयति । सनि “ इति नस्य द्वित्वप्रतिषेधाद् घेरेव द्वित्वे अन्दिधयिषति ॥ न बदनं ० " ४|११५ अथ नान्ताश्चत्वारः ॥ 4 ३१९ स्तन गर्जे ' । गर्जो मेघशब्दः । स्तनयति । ङे अतस्तनत् । अपोपदेशत्वात् त्वाभावे तिस्तनयिषति । उणादौ " हृषिपुषि० " ( उ० ३९७ ) इति इत्नौ स्तनयित्नुः गदयित्नुश्च मेघः । स्तन शब्दे [१ ३२३ ], स्तनति । णिगि शब्दादन्यत्र न घटादित्वम् स्तानयति ॥ ' ३२० ध्वनणू शब्दे ' । ध्वनयति । ङे अदध्वनत् । ध्वन शब्दे [ १ ३२५ ], ध्वनति । णिगि शब्दादन्यत्र घटादित्वाभावे ध्वानयति ॥ 6 ३२१ स्तेन चौर्ये ' । स्तेनयति । ङे अपोपदेशत्वात् पत्वाभावे अतिस्तेनत् । अचि स्तेनः ॥ ' ३२२ ऊनण् परिहाणे ' । ऊनयति । डे मा भवान् ऊभिनत् । अचि ः । ते नितम् ॥ अथ पान्तास्त्रयः ॥ ' ३२३ कृपण दौर्बल्ये ' । कृपयति । ङे अचक्रपत् । नन्द्यादित्वादने कृपणः । स्त्री चेत् कृपणा । मृगया० ५|३|१०१ इति निपातनाद् अनापवादेऽङि कृपा | 66 " कृपौ सामर्थ्य [१९५९], कल्पते । कृपणू अवकल्कने [ ९।१७९ ], कल्पयति ॥ 4 ३२४ रूपणू ' रूपक्रियायाम् ' । रूपक्रिया राजमुद्रादिरूपस्य करणम्, रूपयति । णके रूपकम् । अलि रूपम् । णिवेत्ति० " ५।३।१११ इत्यने रूपणा । रूपप्रदर्शनं वा रूपक्रिया; निरूपयति, निरूपणा || 66 १. तुलना:- क्षीरतरङ्गिणी पृ. ३२१ ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy