SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३२० ] आचार्यश्री हेमचन्द्रविरचिते [धा० १२५भावे " नाम्युपान्त्य० " ५१५४ इति के तुलः, आपि तुला । मिदाद्यङि अपि तुला । तुलयति इति तुलशब्दाद् “णिज् बहुलं०" ३।४।४२ इति णिचि रूपम् ॥ ___ १२६ दुलण उत्क्षेपे' । दोलयति । अचि स्त्रियामापि दोला । "सेटूक्तयोः" ४।३३८४ इति णेलुकि दोलितः । “ मीषिभूषि०" ५।३।१०९ इत्यङि दोला । उणादौ णिचोऽनित्यत्वादभावे " नाम्युपान्त्य ०" ( उ० ६०९ ) इति किदिः, दुलिः कच्छपी । अन्दोलयतीति तु रूढेः, यथा प्रेढोलयति, वीजयति ॥. १२७ बुलण निमजने' । बोलयति, बोलितम् । अनटि बोलनम् । णिचोऽनित्यत्वाद् " नाम्युपान्त्य०" ५।१।५४ इति के बुलः ॥ १२८ मूलण रोहणे' । मूलयति, अचि मूलम् । उणादौ " स्वरेभ्य" ( उ० ६०६) इति इ., मृलि: । मुल इति नन्दी, मोलयति । णिचोऽनित्यत्वाद् " नाम्युपान्त्य०" ५।१।५४ इति के मुलः । मूल प्रतिष्ठायाम् [११४२७], मूलति ॥ १२९ कल १३० किल १३१ पिलण क्षेपे' । कालयति गाः । अचि कालयति क्षिपति स्वेषु स्वेषु पर्यायान्तरेषु भावान् इति कालः । कलण संख्यानगत्योः [९।३४२ ], अदन्तः, सङ्कलयति । अलि कलः । कलि शब्दसंख्यानयोः [ ११८१४ ], कलते ॥ '१३० किल' । केलयति । उणादौ " स्वरेभ्यः" ( उ०६०६) इति इ., केलिः । किलत् श्चत्यक्रीडनयोः [ ५।८६ ], किलति ॥ · १३१ पिलण्' । पेलयति । अचि पेलम् । पेल्यन्ते वस्त्रादीनि अस्यामिति पाहुलकाद् अनडपवादः, “शंसिप्रत्ययात् " ५३।१०५ इति अ, भिदादित्वाद् वाङि पेला । णिचोऽनित्यत्वात् पिल्यते ॥ * १३२ पलण् रक्षणे' । पालयति । पाल इति चन्द्रः, पाली ॥ १३३ इलण प्रेरणे' । एलयति । " उपसर्गस्यानिण" ११२।१९ इति अवर्णलोपे प्रेलयति, परेलयति । D ऐलिलत् , अचि एला । इलत् गतिस्वप्नक्षेपणेषु [५।८७ ], इलति ॥ १३४ चलण भृतौ' चालयति । चल कम्पने [ ११९७२ ], चलति । कम्पने घटादित्वाद् हस्वे चलयति । चलत् विलसने [५।९२], "अवर्णादश्नो०" २।१।११५ इति शतुर्वाऽन्ताऽऽदेशे चलती चलन्ती स्त्री कुले वा ॥
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy