________________
१६०
आचार्यश्रीहेमचन्द्रविरचिते [ धा० १०५४
अथ रान्तः सेट च ॥ १०५४ ज्वर रोगे' । ज्वरति । णौ ह्रस्वे उबरयति । भिणम्परे तु वा दीचे अज्वारि, अन्वरि, ज्वारंज्वारम् , ज्वरंज्वरम् । “रुजार्थस्या० " २।२।१३ इत्यत्र ज्वरेवर्जनाद् वा कर्मत्वाभावे द्वितीया एव, न तु षष्ठी; चौरं ज्वरयति ज्वरः । यङि जाज्वर्यते । यङ्लुपि जाज्वरीति, जाजूति । क्ते ज्वरितः । विपि " मव्यवि० " ४।१।१८९ इति वस्योटि सुजः । क्तौ जूतिः । “ समः पृचैप०" ५।२।५६ इति घिनणि संज्वरणशीलः संज्वारी । उणादौ " कावावी." ( उ० ६३४ ) इति णौ जूणिः ज्वरः ॥
अथ लान्ताश्चत्वारः सेटश्च ॥ १०५५ चल कम्पने' । चलति । णौ हस्वे चलयति शाखाम् । कम्पनादन्यत्र चालयति सूत्रं पर्यनुयुङक्ते । चालयति शीलं हरतीत्यर्थः । ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिह पठ्यते ॥
“ १०५६ बल १०५७ हल चलने' । ह्वलति, ह्वलिता । णौ हस्वे विह्वलयति, प्रहवलयति । अचि विहवलः ॥
___ '१०५७ ह्मल' । झलति, मलिता । णौ हस्वे ब्रह्मलयति । "ज्वलहवल." ४।२।३२ इत्यनुपसर्गस्य वा हूस्वे वलयति, बालयति, मलयति, ह्यालयति ||
'१०५८ ज्वल दीप्तौ च । चकारात् चलने । प्रज्वलयति, संज्वलयति । " ज्वलबल०" ४।२।३२ इत्यनुपसर्गस्य वा हस्खे ज्वलयति, ज्यालयति । ज्वलादौ पठितोऽप्ययं घटादिकार्यार्थमिहाधीतः । केचित्तु दलि-वलि-स्खलि-क्षपि-त्रपीणामपि घटादित्वमिच्छन्ति, तन्मते दलयति, वलयति, स्खलयति, क्षपयति, उपयति इत्यपि भवति ॥ - इत्याचार्यश्रीहेमचन्द्रविरचिते स्वोपज्ञशब्दानुशासनधातुपारायणे औत्सर्गिकशवि' करणो निरनुबन्धो भूवादिगणः सम्पूर्णः ॥