SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ - आचार्यश्रीहेमचन्द्रविरचिते [धा० १०४६च जिह्वाविषया क्रिया उन्मन्थनं च इति समाहारः । लडयति जिवाम् । ललयति दधि । लडण उपसेवायाम् [ ९।५५ ], लाडयति । लड विलासे [११२५४ ], इत्यस्यैव अर्थविशेष घटादिकार्यार्थमिह पाठः ॥ अथ णान्ताः षट् सेटश्च ॥ • १०३७ फण १०३८ कण १०३९ रण गतौ' । फणति । णौ घटादित्वाद् हुस्वे फणयति । "जभ्रम०" ४।१।२६ इति वा एत्वे द्वित्वाभावे च फेणतुः, पफणतुः, फेणुः, पफणुः । थवि " स्क्रसृवृ०" ४४८१ इति इटि फेणिथ, पफणिथ । · क्षुब्धविरिब्ध०" ४।४।७० इति क्ते निपातनाद् अनायासे 'फाण्टाभिः अद्मिः आचामेत् इति कदुष्णाभिः इति अनायासो गम्यते । आयासे तु फणितम् ।। १०३८ कण' । कणति । णौ घटादित्वाद् इस्वे कणयति । णो अचि कणयतीति कणः । “कणेमनस तृप्तौ" ३११६ इति सूत्रनिर्देशाद् एत्वे कणेहत्य पयः पिबति, श्रद्धाघातं कृत्वा इत्यर्थः । तृप्तेरन्यत्र गतित्वाभावे कणे हत्वा मूषिकां गतः ॥ '१०३९ रण' । रणति । णो घटादित्वाद् हस्वे रणयति । गतेरन्यत्र फाणयति घटं निःस्नेहयतीत्यर्थः; काणयति राणयति शब्दयतीत्यर्थः । कणिरणी पूर्वाधीतो घटादिकार्याथमिह पठितौ ॥ '१०४० चण हिंसादानयोश्च' । हिंसायां दाने चकाराद् गतौ । चणति । जो घटादित्वाद् इस्वे चणयति । शब्दे तु चाणयति । उणादौ " दकन " (उ० २७) इत्यके चणकः ॥ ____१०४१ शण १०४२ श्रण दाने' । शणति । घटादित्वाद् हस्चे शणयति । घमि शाणः ॥ । १०४२ श्रण' । श्रणति । णौ हस्वे श्रणयति । दानादन्यत्र शाणयति, श्राणयति । श्रणण दाने [ ९७६ ] विश्राणयति ॥ अथ थान्ताश्चत्वारः सेटश्च ॥ १०४३ स्नथ १०४४ क्नथ १०४५ क्रथ १०४६ कथ हिंसार्थाः' । स्नथति, स्नथयति । क्नथति, क्नथयति । ऋथति, ऋथयति । चौरस्योत्क्राथयति १. फाण्टा भिरिभरा इति मु. !!
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy