SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १५४ 4 आचार्य श्री हेमचन्द्र विरचिते [ धा० १००५ १००५ स्खदिषु खदने ' । खदनं विदारणम् । स्खदते, चस्खदे, स्वदिता । षित्वादङ स्वदा । णौ घटादित्वाद् ह्रस्वे स्वदयति ॥ 6. , १००६ कदु १००७ क्रदु १००८ क्लढुङ् वैक्लव्ये ' । विक्लवः कातरः, तस्य भावः कर्म वा वैक्लव्यम् । वैकल्ये इति चन्द्रः । उदित्वा कन्दते, क्रन्दते, क्लन्दते । केटो ० " ५|३|१०६ इत्यः कन्दा, क्रन्दा, बलन्दा । णौ कन्दयति, ञिणम्परे तु वा दीर्घः, अकान्दि, अकन्दि, कान्दंकान्दम् कन्दकन्दम् । एवं शेषयोरपि । क्रन्देः नन्द्याद्यने संक्रन्दनः । " इङितो० " ५।२।४४ इत्यने आक्रन्दनः । घञि आक्रन्दः । त्रयोऽप्येतेऽनुदितः पितश्व इति नन्दी; कदते, क्रदते, क्लदते, कदा, कदा, क्लदा । कदु-कटु-क्लदु रोदनाह्वानयोः [१।३१५ - ३१६३१७ ] कन्दति, क्रन्दति, क्लन्दति ॥ अथ पान्तः ॥ 1. ' १००९ ऋषि कृपायाम् ' । ऋपते, चक्रपे, क्रपिता । णौ घटादित्वाद् स्क्रपयति । मृगयेच्छा० " ५।३।१०१ इति निपातनाद् अङि कृपा | कृपण इति तु ( उ० १८८ ) इति कित्यणे कृपेः || 66 66 " 'कगप ० ६ ६ ६ अथ रान्तः ॥ 66 ' १०१० जित्वरि संभ्रमे ' | संभ्रमः अत्र आशुकारिता । त्वरते, तत्वरे, aftar | fs तात्वर्यते । लुपितात्वरीति । मव्यवि० " ४|१|१०९ इति वस्य उपान्त्येन सहोटि तातूर्ति । पिचादङि त्वरा । णौ घटादित्वाद् हूस्वे स्वरयति । ङे सन्वद्भावापवादे " स्मृदृत्वर० " ४|१|६५ इति पूर्वस्यात्वे अतत्वत् । ञित्वात् " ज्ञानेच्छा ० " ५।२९२ इति सति के " श्वसजप० ४/४/७५ इति वा नेटि त्वरितः, पक्षे " मव्यवि० १ ४|१|१०९ इति वस्योपान्त्यत्वेन सहोटि तूर्ण: । तूर्णिः इति तु तूरेः " कावावी० " ( उ० ६३४ ) इति णो ।। " अथ षान्तः ॥ ' १०११ प्रसिषु विस्तारे ' । प्रसवे इत्यन्ये । प्रसते, पत्रसे, प्रसिता । विचादङि प्रसा । णौ घटादित्वाद् वे प्रसयति ॥ १ मुद्रिते चान्द्रधातुपाठे तु वैक्लव्ये इति पाठः ॥ २ " ० " इति मु० ॥ દદ
SR No.034254
Book TitleDhatu Parayan
Original Sutra AuthorHemchandracharya
AuthorMunichandravijay
PublisherShahibaug Girdharnagar Jain S M P Sangh
Publication Year1979
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy