________________
आत्मनेधातवः ७१७-७२६]
स्वोपज्ञं धातुपारायणम् ।
९१
कामवृक्षश्च । “न णिङ्-य-" ५/२/४५ । इत्यत्र दीपिग्रहणादरूपे अने वन्दनः । “णि - वेत्ति - " ५।३।१११। इति अने वन्दना । उणादौ “पदि पठि -" ( उ० ६०७ ) इति इ:, वन्दिहणिः ॥
७२२ भदुङ् सुख-कल्याणयोः । सुखं सद्वेयकमोंदयाच्छुभानुभवनम् । कल्याणं श्रेयः । प्रीतावप्यन्ये । प्रीतिर्मोहनीयविपाकः । उदित्त्वाद् ने भन्दते । बभन्दे । भन्दिता । “इ- ङितो - " ५।२।४४ । इति अने भन्दनः । उणादौ “सीमन्त - हेमन्त - " (३० २२२ ) इति अन्ते निपातनात् भदन्तः । 6 " भन्देर्वा" ( उ०३९१) इति रे वा नलुकि च भद्रं भन्द्रं च सुख-कल्याणे । चुरादौ भडुण कल्याणे दान्त इत्येके भन्दयति ॥
७२३ मदुङ् स्तुति-मोद-मद- स्वप्न गतिषु । मोदो हर्षः । मदो दर्पः । स्वमेन आलस्यमपि लक्ष्यते। चन्द्रस्तु मदि जाड्ये इत्येवाह । मोद-मद- स्वप्नेष्वकर्मकोऽयम्, स्तुति - गत्योः सकर्मकः । उदित्त्वाद् ने मन्दते । ममन्दे । भन्दिता । अचि मन्दः । स्त्रियां " जातेरयान्त - "२|४|५४ | इति, यौव- 10 नावस्थावृत्तौ तु "वयस्यनन्त्ये " २४ २१ । इति ङीप्राप्तौ “अजादेः " २ |४| १६ | इति आपि मन्दा स्त्रीजातिः युवतिर्वा । उणादौ "शलि-बलि-पति-" ( उ० ३४ ) इति आके मन्दाकः । मत्वर्थीये इनि मन्दाकिनी । “भी- वृधि - " ( उ० ३८७) इति रे मन्द्रं गम्भीरम् । मद्रमिति तु माद्यतेः । "ऋच्छिचटि - " ( उ० ३९७) इति अरे मन्दरः शैलविशेषः । " अग्यङ्गि - " ( उ० ४०५ ) इति आरे मन्दारो देववृक्षः । “मदि- मन्दि - " ( उ० ४१२ ) इति इरे मन्दिरं सद्म । मदिरेति तु माद्यतेः । 15 “वाश्यसि - " ( उ० ४२३) इति उरे मन्दुरा वाजिशाला ॥
७२४ स्पदुङ् किञ्चिच्चलने । उदित्वाद् ने स्पन्दते । पस्पन्दे । स्पन्दिता । णिगन्तात् फलवत्कर्तर्यपि “चल्याहारार्थेङ्–”३|३ | १०८ । इति परम्मैपदम्, स्पन्दयति । घञि स्पन्दः । " चालशब्दार्थाद् - " ५/२/४३ | इति अने स्पन्दनो वृक्षविशेषः ।
७२५ क्लिदुङ् परिदेवने । परिदेवनं शोचनम् । उदित्वाद् ने क्लिन्दते । क्लिन्दिता । क्लिदु परिदेवने क्लिन्दति । गित्त्वमकृत्वोभयत्र पाठस्तु फलवत्यपि कर्तरि परस्मैपदार्थ: अफलेऽप्यात्मने - 20 पदार्थश्च ॥
७२६ मुदि हर्षे । अकर्मकोऽयम् । मोदते । मुमुदे । मोदिता । के मुदितः । "वौ व्यञ्जनादेः-१ ४।३।२५। इति क्त्वा सनोर्वा कित्त्वे मुदित्वा मोदित्वा, मुमुदिषते मुमोदिषते । णौ मोदयति चैत्रम्, अत्र “अणिगि–” ३।३।१०७ । इति फलवत्कर्तर्यपि परस्मैपदं " गति - बोधाऽऽहारार्थ- "२।२|५| इत्यणिकर्तुः कर्मत्वं च । मूलविभुजादित्वात् के कुमुदम् । “तिक्कृतौ नाग्नि" ५/१/७१ । इत्यानशि 25 मोदमानः कोऽपि ग्रामः । णके मोदयतीति मोदकः । "नाम्युपान्त्य - " ५।१।५४ | इति के मुदः । “इ - ङितो - " ५।२।४४ । इति अने मोदनः । उणादौ " पू- मुदिभ्यां कित्" ( उ० ९३ ) इति किति
१ " स्तुति-मोद-मद-स्वप्न - कान्ति-गतिषु इति । चन्द्रस्तु मदि जये इत्यपि पपाठ" - मा०धा० १०४२ धा० १३ ।। २ °ते । स्पन्दितुम् । णिग' खे० संपा१ वा० सं२ ॥ ३ “मूलविभुजादयः " ५।१।१४४ । इति सूत्रेण ।।