________________
मात्मनेधातवः ६५४-६६७] स्वोपझं धातुपारायणम् । एत्व-द्वित्वाभावविकरूपोऽपि तस्यैव, भेजे बाजे । इदमेव च भ्राजेरात्मनेपदिनोऽप्युभयपदिषु राजग् टुम्राजी दीप्ताविति पाठे प्रयोजनम् । “भ्राज्यलकृग्-" ५।२।२८। इतीष्णौ भ्राजिष्णुः । “दिद्युद्दहृद्-"। ५।२।८३। इति क्विपि नभ्राक् । राजग दुभ्राजी दीप्तावित्यस्य तु ट्वित्त्वादथौ भ्राजथुः ॥
६६२ इजुङ् गतौ । उदित्त्वाद् ने इञ्जते । इलाञ्चक्रे । इजिता ॥
६६३ ईजि कुत्सने च । चकाराद् गतौ । ईजते। वीर्जते । ईजाश्चक्रे । लौकिकस्य तु वीजेर- 5 वीजयत् । राजहंसैरवीज्यन्त । अस्य तु विपूर्वस्य णौ दिवि व्यैजयत् व्यज्र त ॥
६६४ ऋजि गति-स्थाना-र्जनोजनेषु । ऊर्जनं प्राणनम् । अर्जते। "ऋत्यारुपसर्गस्य"१।२।९। इति आरि उपार्जते। "अनातो-"५।११६९। इति पूर्वस्यात्वे ने च आनृजे । सनिटः कार्यित्वेन द्वित्वं प्रति निमित्तत्वाभावेन द्वित्वात् प्रागेव स्वरस्य विधौ गुणे सति "अयि रः"४।१।६। इति रेफस्य द्वित्वाभावे "स्वरादेर्द्वितीयः" ४।१।४। इति जेरेव द्वित्वम् अर्जिजिषते । णौ अर्जयति । “ऋदुपान्त्यात्-" 10 ५।१॥४१॥ इति क्यपि ऋज्यम् । घञि उद्गादित्वात् गत्वे अर्गः स्थानम् , शोभनोऽर्गः स्वर्गः । उणादौ "ऋच्यूजि-" (उ० ४८) इति किति ईके ऋजीकं वजं बलं च । "ऋजि-श-" (उ० ५५४) इति किति ईषे ऋजीषः अवस्करः। ऋजीषं धनमुपहतं च । उद्रिक्तादिसिद्धयर्थ व्यञ्जनादिमेनमन्ये मन्यन्ते ॥
६६५ ऋजुङ् ६६६ भृजैङ् भर्जने । भर्जनं पाकप्रकारः । उदित्त्वाद् ने ऋञ्जते। "अ- 16 नातो-" ४।१।६९। इत्यात्वे ने च आनृङ्गे । "ऋत्यारुपसर्गस्य" १।२।९। इत्यारि उपाञ्जते। ऋञ्जिता ॥ भृजैङ् । भर्जते । बभृजे । "ऋवर्णस्य" ४।२।३७। इत्य॒तो वा ऋत्वे णौ डे अबीभृजत् अबभर्जत् । सनि बिभर्जिषते । ऐदित्त्वात् क्तयोर्नेट् , भृक्तः भृक्तवान् । क्तेऽनिट्त्वात् घञि गत्वे भर्गो रुद्रः । "ऋदुपान्त्यात्-" ५।१।४१। इति क्यपि भृज्यम् । उणादौ "कृषि-चमि-" (उ० ८२९) इति ऊः, भजूः, अभ्योषः ॥
20 ६६७ तिजि क्षमा-निशानयोः। निशानं तीक्ष्णीकरणम् । “गुप्तिजो-" ३।४।५। इति सनि 'तितिक्षते कोपम् । क्षान्तौ सन्विधानात् तेजने प्रत्येयान्तरम् । णौ तेजयति । “करणाधारे"
१ वीज्यते वा० सं१ ॥ २ "न्यवृद्गमेघादयः” ४१।११२। ॥ ३ 'अभ्योषः अर्धरिवन्नयवादेघृतादिना भर्जितयवादेर्वा घृतपक्वान्नस्य 'पोळी' इत्यादिप्रसिद्धस्य" इति अमरटीकाकारः अमर० वैश्यवर्ग, कांड २ श्लो ४७।४ सहते इत्यर्थः ।। ५ तेन तेजनम् तेजयति इत्यादि । त्यादिसमानार्थत्वात् शत्रानशावपि न, 'अर्थान्तरेऽपि त्यादयो नाभिधीयन्ते' इति वचनात्। केचित् शत्रानशाविच्छन्ति, तेन गोपमान तेजमानं केतन्तं प्रयुङ्क्ते इत्यपि भवति । "गुप्तिजो गर्हा-क्षान्तौ सन्" ३।४।५। इति सूत्रवृत्तौ प्रायेण इति भणनात् गोपते तेजते केतति वधते इत्यद्यपि, अत एव रसवाचकतिक्तशब्दसाधनाय तेजते इति वाक्यं कृतं क्षीरस्वामिना-" इति ३४५ सूत्रलघुन्यासे कनकप्रभसूरिः । “अयं पक्षो नन्दि-मैत्रेययोरपि सम्मतः, हर. दत्तस्तु नानुमन्यत एतद्, तथाच तद्वचः-'गुप गोपने इत्यस्य सन्विधौ ग्रहणं तस्माच्च नित्यः सन्नेव भवति नापरः प्रत्ययः । गोपायतीत्यादि कस्तु प्रयोगो गुल रक्षणे इत्यस्य स चान्य एव, अवश्यं चैतदेवं विजेयम् ।