SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ५६ संगीतरत्नाकरः स्कन्धकूपरयोर्मध्यमन्योन्यस्य यदा करौ ॥ २०४॥ दधाते सर्पशिरसौ गजदन्तस्तदोदितः । आकुश्चत्तूर्परौ स्कन्धदेशस्थौ सर्पशीर्षकौ ॥ २०५ ॥ अन्योन्याभिमुखौ लक्ष्म गजदन्ते जगुः परे । एष शैलशिलोत्पाटे गतागतयुतः करः ।। २०६ ॥ विवाहस्थाननयने स्याद्वधूवरयोरयम् । स्तम्भग्रहेऽतिभारे च श्रीसोढलमुतोदितः ॥ २०७॥ इति गजन्तः (९) बन्धस्वस्तिकत्वपक्ष इत्यर्थः । मतान्तर इति । अन्योन्यसंमुखत्वपक्ष इत्यर्थः ।। २०२, २०३- ॥ इति खटकावर्धमानः (८) (१०) खटकावर्धमानं लक्षयति-खटकामुखयोरिति । खटकामुखयोः पाण्योः मणिबन्धे स्वस्तिके वा अन्योन्याभिमुखत्वे वा खटकावर्धमानो भवति । अस्य विनियोगस्तु-ताम्बूलग्रहणादौ; कामिनां प्रथमे रसे; शृङ्गाररसप्रयोजकेऽर्थे, पुष्पाणां च प्रथने च कार्यः । मतान्तरे तु सत्यभाषणदौ कुमुदानामुत्पलानां कुन्तानां च रूपणे, शङ्कस्य धारणे च कार्यः ॥२०२, २०३॥ इति खटकावर्धमानः (८) (क०) गजदन्तहस्तविनियोगे- एष इति प्रथमलक्षणलक्षितो निर्दिश्यते । अतः शैलशिलोत्पाटादिषु विनियोगस्तस्यैवेति ज्ञातव्यम् । अत्राभिनयहस्तानां भरतायुक्तासमस्तविनियोगाकथनं नृत्तेऽभिनयहस्तानामप्राधान्यज्ञापनार्थम् । अथ नृत्तहस्तादीनामपि चतुरश्रादीनां सगाद्याकर्षणादभिनय दिवप्रदर्शनम् , “ सूच्यन्तेऽन्ये माहचर्यात्' इति पूर्वोक्त Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy