SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ५४ संगीतरत्नाकरः विच्युतः स्वस्तिकः स्त्रीभिरेवमस्तीति भाषणे । गगने सागरादौ च विस्तीर्णे संप्रयुज्यते ॥ १९४ ॥ इति स्वस्तिक: (४) लम्बमानौ पताकौ तु श्लयांसौ शिथिलाङ्गुली । डोलो भवेदसौ व्याधौ विषादे मदमूर्छयोः ॥ १९५ ॥ संभ्रमादौ यथायोगं स्तब्धो वा पार्थडोलितः। इति डोल: (५) सर्पशीर्षो मिलद्वाह्यपार्थः पुष्पपुटो भवेत् ॥ १९६ ॥ धान्यपुष्पफलादीनामपां च ग्रहणेऽर्पणे । कार्यः पुष्पाञ्जलौ चैष प्रोक्तः सोढलसूनुना ॥ १९७ ॥ इति पुष्पपुटः (६) देहस्य सव्यपार्श्वे तिष्ठतः, तदा स्वस्तिकः । अस्य विनियोगमाहअत्रेति । अत्राभिनेतव्यवशात् अरालौ वा पताको वा स्वस्तिको कार्यों । स च विच्युतः सन् स्त्रीभिः एवमस्तीतिभाषणे, गगने, विस्तीर्ण सागरादौ च कार्यः ॥ -१९२-१९४ ॥ __इति स्वस्तिकः (४) ___ (सु०) डोलं लक्षयति-लम्बमानाविति । पताकाख्यौ करौ लम्बमानौ स्रस्तांसौ शिथिलागुली यदा भवेतां, तदा डोलाख्यो हस्तकः । तस्य विनियोगमाह-असाविति । असो; डोल: व्याधौ, विषादे, मदे, मूर्छायाम् , संभ्रमादौ यथायोगं स्तब्धो निश्चलो वा, डोलायमानो वा यथा स्यात्तथा कार्यः ॥ १९५, १९६- ॥ इति डोलः (५) (सु०) पुष्पपुटं लक्षयति-सर्पशीर्ष इति । मिलद् बाह्यं पार्श्व ययोस्तथाविधौ द्वौ सर्पशीर्षों पुष्पपुटाख्यो हस्तकः । अस्य विनियोगमाहधान्येति । अयं च, धान्यपुष्पफलदीनां ग्रहणे, अपाम् अर्पणे, पुष्पाजलौ च कार्यः॥ -१९६-१९७॥ इति पुष्पपुट: (6) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy