SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४३ सप्तमो नर्तनाध्यायः व्यावर्तिताख्यं करणं कृत्वैव समवस्थिताः । यस्याङ्गुल्यः करतले पार्श्वगाः सोऽलपल्लवः ॥ १४४ ॥ अलपद्मः स एव स्यादगुलीनां च केचन । अस्य व्यावर्तितस्थाने परिवर्तितमूचिरे ॥ १४५ ॥ कस्य त्वमिति नास्तीति वाक्ययोः प्रतिषेधने । तुच्छायुक्तानृतत्वोक्तिष्वेव स्त्रीभिः प्रयुज्यते ॥ १४६ ॥ इत्यलपल्लव: (१३) ऊर्ध्वप्रसारिता यत्र खटकामुखतर्जनी । .हस्तः सूचीमुखः स स्यादभिनेयमिहोच्यते ॥ १४७ ॥ शस्त्रे चक्राभिधे कुम्भकारोपकरणे तथा । रथाङ्गे जनसंघाते भ्रमन्ती तर्जनी भवेत् ।। १४८ ॥ (क०) अलपल्लवलक्षणे-व्यावर्तिताख्यं करणमिति । आवेष्टितप्रक्रियया कनिष्ठाघगुलिकृतया या करवर्तना तद्वयावर्तितं करणम् ॥ १४४-१४६॥ इत्यलपल्लव: (१३) . (सु०) अलपल्लवं लक्षयति-व्यावर्तिताख्यमिति । व्यावर्तिताख्यं करणं कृत्वा, यस्य अशल्यः करतले पार्श्वगाः समवस्थिता: सोऽलपल्लवः । मतान्तरमाह-अलपद्म इति । केचन आचार्याः अस्य अङ्गुलीनां व्यावर्तितमिममेव अलपद्म इत्याहुः । अस्य व्यावर्तितस्थाने परिवर्तितमप्यूचिरे । तस्य विनियोगमाह-कस्येति । कस्य त्वमिति, नास्तीति वाक्ययोः प्रतिषेधने, तुच्छायुक्तानृतत्वोक्तिषु स्त्रीभिः प्रयुज्यते ।। -१४३-१४५- ॥ इत्यलपल्लवः (१३) (सु०) सूचीमुखं लक्षयति-ऊर्वेति । यत्र खटकामुखस्य तर्जनी ऊर्ध्वप्रसारिता, स सूचीमुखाख्यो हस्त: स्यात् । तस्याभिनेयस्तु-चक्राभिधे शस्त्रे, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy