SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ३८ संगीतरत्नाकर: आशीर्वादादिषु प्रोक्तः स पुंसां हृदयस्थितः ॥ १२३ ॥ अधः स्त्रीणां केशबन्धे केशानां च विकीर्णने । द्विस्त्रिः कार्योऽन्यपाङत्तु स्वपार्थे वर्तुलभ्रमः ॥ १२४ ॥ आव्रजन् जनसंघ स्यादाहाने पतदङ्गुलिः । विवाहे त्वङ्गुलाग्रस्थस्वस्तिकाकारयोजितम् ॥ १२५ ॥ प्रदक्षिणं करद्वन्द्वं स्याद्धमत्केवलं पुनः । प्रदक्षिणं भ्रमन् कार्यो देवतानां प्रदक्षिणे ।। १२६ ॥ कस्त्वं कोऽहं क संबन्ध इत्यसंबद्धभाषणे । बहिः पुनः पुनः क्षिप्ताङ्गुलिर्भालस्थितः पुनः ।। १२७ ॥ भालस्वेदापनयने त्रिपताकोदितेषु च । इत्यरालः (५) सकाशात् । दूरस्थोचा मनावका कर्तव्येति । पूर्वापूर्वापेक्षया परापरासु दूरस्थत्वाद्याधिक्यं द्रष्टव्यम् ॥ १२२-१२७. ॥ इत्यराल: (५) (सु०) अरालं लक्षयसि-तर्जनीति । तर्जन्यादिपु अङ्गुलीपु, पूर्वस्याः पूर्वस्याः सकाशात् परा परा अङ्गुलीषु दूरस्थोच्चा मनाग्वक्रा वा भवति । तर्जनी तु धनुराकारेण वक्रा ; अङ्गुष्ठः यत्र कुञ्चितो भवेत् तम अरालं प्राहुः । तस्य पुरुषहृदयस्थितस्य आशीर्वादादिषु विनियोगः । अधःस्थित: सन् स्त्रीणां केशबन्ध तथा केशानां च विकीर्णने ; पृथक्करणे च द्विस्त्रिः कृतः सन् प्रयुज्यते । अन्यपार्श्वसकाशात स्वपार्श्व वर्तुलभ्रममावजन् जनसंधे जनसमूहे विनियुज्यते । पतदङ्गुलि: ; पतन्त्य अङ्गुलयो यस्य, तथाविध आह्वाने कार्यः । विवाहे ; विवाहसमये तु अङ्गुल्यग्रयोः स्वस्तिकाकारस्य योजनं यस्य ; तथाविधमरालं करद्वन्द्वं केवलं प्रदक्षिणं भ्रमन् प्रयुज्यते । पुन: प्रदक्षिणं भ्रमन् Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy