SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः बहुशो द्रुतमूर्ध्वाधः कम्पनात्कम्पितं शिरः । ज्ञानेऽभ्युपगमे रोषे वितर्के तर्जने तथा ॥ ५८ ॥ त्वरितप्रश्नवाक्ये च प्रयोक्तव्यमिदं शिरः । इति कम्पितम (५) आकम्पितं तदेव स्याद् द्विःप्रयुक्तं शनैर्यदि ॥ ५९॥ एतत्पौरस्त्यनिर्देशप्रश्ने संज्ञोपदेशयोः । आवाहने स्वचित्तस्थकथने च प्रयुज्यते ॥ ६ ॥ इत्याकम्पितम् (६) अवधूतमित्युच्यते । तस्य विनियोगमाह-स्थित्यर्थ इति । स्थित्यर्थे ; प्रतिष्ठार्थे, देशनिर्देशे, संज्ञायाम् , आवाहने, आलापे च प्रयोक्तव्यम् ॥ -५६, ५७॥ इत्यवधूतम् (5) (सु०) कम्पितं लक्षयति-बहुश इति । बहुवारं द्रुतं, शीघ्रम् , ऊर्ध्वमधश्च कम्पनात् कम्पितं शिरो भवति । तस्य विनियोगमाह--ज्ञान इति । ज्ञाने; अभ्युपगमे ; अङ्गीकारे, रोपे; कोपे, वितर्के; संशये, तर्जने; भसने, तथा त्वरितप्रश्नवाक्ये च विनियोगः ॥ ५८-॥ इति कम्पितम् (५) (सु०) आकम्पितं लक्षयति- आकम्पित मिति । तदेव कम्पितं शिरः शनैः यदि द्वि:प्रयुक्तं, तदा आकम्पितम् । एतस्य विनियोगमाह-एतदिति । पौरस्त्यनिर्देशे, प्रश्ने, संज्ञायाम , उपदेशे च, तथा आवाहने, स्वचित्तस्थाभिप्रायावेदने च प्रयुज्यते ॥ -५९, ६० ॥ इत्याकम्पितम् (6) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy