________________
४७२
संगीतरत्नाकरः
विरोधिनो रसास्तेषु संदर्भ्यः पृथगाश्रयः || १६७० ॥ गुम्भचित्रो रसानां स्यानाटये कुसुमगुम्भवत् । स्थायी तु सूत्रस्थानीयो रसो रसविदां मतः ।। १६७१ ॥ सूरिश्रीशार्ङ्गदेवेन नाट्यवेदाम्बुधेरिदम् । समस्तमुद्धृतं सारं धीरैरातृप्ति सेव्यताम् ।। १६७२ ।।
एव वा" इत्यादिना स रसः सदा प्रबन्धस्यादिमध्यावसानेष्वित्यर्थः । कार्यः कर्तव्यः । अन्ये रसास्तु तदनुयायित्वात्स्थायिरसानुसारित्वाद्वद्यभिचारिणः । कर्तव्या इति शेषः । तथा चोक्तं भरतमुनिना - सर्वेषां समवेतानां रूपं यस्य भवेद्वहु ।
66
समन्तव्यो रसः स्थायी शेषाः संचारिणो मताः ॥
99
इति ॥ - १६६९, १६६९- ॥
(क० ) विरोधिन इत्यादि । यथा शृङ्गारस्य बीभत्सः । वीरस्य भयानकः । रौद्रस्य करुणः । अद्भुतस्य हास्यः । शृङ्गारादीनामष्टनामपि शान्तः । तथा बीभत्सस्य शृङ्गारः । भयानकस्य वीरः । करुणस्य रौद्रः । हास्यस्याद्भुतः । शान्तस्य शृङ्गारादयोऽष्टाविति परस्परविरोधिनो रसा ज्ञेयाः । तेषु संचारिषु ये विरोधिनो रसा विद्यन्ते तेषु विरोधिषु विषये पृथगाश्रयो भिन्नाश्रयः संदर्भ: कार्य इति । अयमर्थ:- शृङ्गारबीभत्सादीनामेकाश्रयत्वे विरोधो दुर्निवार एव । भिन्नाश्रयत्वे तु विरोधो नास्तीति । गुम्भ इत्यादि । एवं भिन्नाश्रयत्वेन विरोधिना संदर्भे क्रियमाणे सति
ये नाटका रूप । रसानां गुम्भो मालाकुसुमगुम्भवच्चित्रः स्यान्नानावर्णगन्धवद्भिः पुष्पैर्निर्मिता मालेव नानाविकारात्मकै रसैरद्भुतो भवति । स्थायी त्रिति । संचारिरसगुम्भे स्थायी रसस्तेषामाघारत्वात्सूत्रस्थानीयो मतः ॥ १६७०, १६७१ ॥
Scanned by Gitarth Ganga Research Institute