SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः सामाजिकानां जनयनिर्विघ्नां रससंविदम् । लक्षणानि विभावादेर्वक्ष्ये रसनिरूपणे ॥ १९ ॥ आङ्गिको वाचिकस्तद्वदाहार्यः सात्त्विकोऽपरः । चतुर्धाभिनयस्तत्राङ्गिकोऽङ्गैर्दर्शितो मतः ॥ २० ॥ वाचा विरचितः काव्यनाटकादिस्तु वाचकः । त्वेन प्रसक्तानां विभावादीनां लक्षणान्यध्यायान्ते रसनिरूपणावसरे वक्ष्यन्त इत्याह-लक्षणानीत्यादि ॥ -१६-१९ ॥ (सु०) नाट्यादीनां स्वरूपं वक्तुं प्रतिजानीते-नाट्यादीति । यतः नाट्यादित्रितयं प्रशस्तमत: कारणात् नाट्यनृत्त्यनृत्तानां प्रपञ्चं लक्षणादिविस्तरं कथ्यते । लक्षणया रसस्य अभिव्यञ्जकत्वेन आङ्गिकादिचतुर्विधाभिनयोपेतं नर्तनमित्युच्यते । अभिनयलक्षणमाह–स त्विति । काव्यनाटकादिरित्यादिशब्देन रूपकाणि विवक्षितानि । तेषामभिनेयार्थत्वात् । तत्र कविना निबद्धं विभावानुभावव्यभिचारादिकं स्थायीभावस्य कारणम् , कार्य सहकार्यादिकं वक्ष्यमाणं व्यञ्जयन् सामाजिकानां प्रेक्षकाणां निर्विघ्नाम् अव्यवहितां यो रससंविदं जनयति सोऽभिनयः । लक्षणानीति । विभावादेर्लक्षणानि अग्रे रसनिरूपणावसरे वक्ष्यन्त इत्यर्थः ॥ १६-१९ ॥ (क०) सामान्येन लक्षितस्याभिनयस्य विशेषानाह-आङ्गिक इत्यादि । बुद्धिविदितपदपदार्थैः अनुकर्तृभिः अङ्गः करचरणादिभिः करणैः दर्शित आङ्गिकः । काव्यनाटकादिस्त्विति । तुशब्दोऽवधारणे । काव्यनाटकादिरेवेत्यर्थः । न तु लोकव्यवहारार्थ शब्दमात्रमित्यर्थः । हारकेयूरेत्यादि । अनुकार्यगताभरणसजातीयत्वेनानुक; धृतं हारादिविभूषणमाहार्याभिनयः । आदिशब्देन धनुराद्यायुधं पुरस्कृतं ध्वजयानादि च विभूषणत्वेन ग्राह्यम् । तस्यापि शोभाहेतुत्वेन विभूषणत्वात् । आहार्यस्यापि अनुकार्य Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy