SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः पक्षयोरुभयोरुक्ते माने साधकबाधके । विभावाः स्युरिमे चानुभावाः शीर्पस्य कम्पनम् ॥ १५८८ ॥ भ्रक्षेपश्चतुरो हस्तस्तं वितर्क प्रचक्षते । यो वितर्कान्वितस्थायी सोऽवहित्थेन युज्यते ॥ १५८९ ।। इति वितर्कः (२१) निद्राविभावजं सुप्तं सुप्तावस्थात्मकं मतम् । तस्यानुभावा निभृतं गानं नेत्रनिमीलितम् ॥ १५९० ॥ स्वमालापनं श्वासोच्छासौ बाह्याक्षलीनता । __इति सुप्तम् (२२) संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः ॥ १५९१ ॥ निद्रया तन्द्रया गात्रगौरवेण च चिन्तया । अनुभावितमाख्यातमौत्सुक्यं भावकोविदः ॥ १५९२ ॥ इत्यौत्सुक्यम् (२३) बाधके माने विभावौ ; शीर्षकम्पनभ्रूक्षेपाचा अनुभावा भवन्ति ; स वितर्कः । यत्र चतुरहस्तेन भ्रूक्षेपं दर्शयति, तं वितर्के प्रचक्षते । यो वितर्कान्वितस्थायी, सोऽवहित्थेन युज्यते ॥ -१९८७-१९८९ ॥ इति वितर्क: (२१) (सु०) सुप्तं लक्षयति-निद्रेति । निद्रा विभावसंभवा, स्वप्नावस्था सुप्तमित्युच्यते । तत्रानुभावाः निभृतगात्रनेत्रनिमीलनश्वासोच्छ्रासादयोऽनुभावा इति ॥ १५९०, १५९०-॥ .. इति निदा (२२) (सु०) औत्सुक्यं लक्षयति-संजातेति । यत्र, निदातन्द्रापात्र Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy