SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४४५ सप्तमो नर्तनाध्यायः निश्वासोच्छसिते दीनमुखता संधारणम् ॥ १५२५ ॥ इत्यादयः स निर्वेदो भावः सूरिभिरिष्यते । ___इति निर्वेदः व्याधिर्वान्तिविरेकश्वोपवासो नियमस्तपः ॥ १५२६ ॥ मनस्तापोरतिपानातिव्यायामसुरतानि च । निद्राछेदोऽध्वगमनं क्षुत्पिपासादयस्तथा ॥ १५२७ ॥ नोऽपि लक्षिताः । संचारिणस्तु रससहकारितया नाममात्रेणोद्दिष्टाः ; न तु प्रत्येकं लक्षिता इतीदानी निर्वेदादीनां विशेषलक्षणानि वक्तुमाह-अथेति । निर्वेदादीनां भावानां रसवन्मनोविकारविशेषरूपतया तत्त द्विभावानुभावकथा नपूर्वकं लक्षयति-'आक्रोशनमधिक्षेपः' इत्यारभ्य 'सस्तगात्रताक्षिनिमीलनम्' (१६४२) इत्यन्तेन ग्रन्थसंदर्भेण ॥ १५२३, १५२४- ।। (सु०) अथ व्यभिचारिणो लक्ष्यति---.अथेति । तत्र निर्वेदं लक्षयतिआक्रोशनमिति । यत्र आक्रोशनम् , अधिक्षेप ; व्याधिः, क्रोधः, ताडनम् , दारिद्रयम् , इष्टवियोगः, परकीयवृद्धिदर्शनमित्येते नीचेषु विभावाः । उत्तमे तु अवमाननतत्त्वबोधौ विभावौ, रोदनम् , नि:श्वासोसिते, दीनमुखत्वम् , संप्रधारणमित्याद्या अनुभावाश्च भवन्ति, स निवेदः ॥ १५२३-१५२५- ॥ इति निर्वेदः (१) (क०) निर्वेदानुभावेपु-संप्रधारणमिति । इत्यादय इत्यत्रादिशब्देन लोकसिद्धा अन्येऽप्यनुभावा ग्राह्याः ॥ -१५२५, १५२५- ॥ इति निर्वेदः (सु०) ग्लानिं लक्षयति-व्याधिरिति । यत्र व्याधिः, वान्तिः, विरेकः, उपवासः, नियमः, तपः, मनस्तापः, अतिपानातिव्यायामसुरतानि, निद्राच्छेदः, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy