SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४२८ संगीतरत्नाकरः गुरौ प्रिये रिपौ भृत्ये भवेत्क्रोधश्चतुर्विधः ॥ १४६० ॥ गुरावव्यक्तचेष्टः स्यात्क्रोधो विनययन्त्रितः । अपाङ्गनिर्गताल्पास्रो भ्रुकुटीकुटिलाननः ॥ १४६१ ॥ स्फुरितोष्ठो मृगाक्षीणां कोपः प्रणयजः पिये। दष्टोष्ठो हस्तनिष्पेषी विकटभृकुटीपुटः ॥ १४६२ ॥ स्वभुजप्रेक्षणैः शत्रौ भवेत्क्रोधो निरर्गलः। विकृतप्रेक्षणैरक्षिविस्तारै रिभर्त्सनैः ॥ १४६३ ॥ भृत्ये कार्यवशात्कोपः कृत्रिमः क्रूरतोज्झितः। . अविस्मयादसंमोहादविषादाच यः सताम् ॥ १४६४ ॥ धर्माद्यर्थविशेषेषु कार्यतत्त्वविनिश्चयः । नयश्च विनयः कीर्तिः पराक्रमणशक्तता ।। १४६५ ॥ प्रतापः प्रभुशक्तिश्च दुर्धर्षप्रौढसैन्यता। मन्त्रशक्तिश्च संपन्नधनाभिजनमन्त्रिता ॥ १४६६ ॥ इत्यादयो विभावाः स्युर्नटे काव्यसमन्विताः। (क०) अत्र स्थायिनः क्रोधस्य विषयभेदाचातुर्विध्यमाह-गुरावित्यादि । सुबोधमन्यत् ॥ -१४६०-१४६३- ।। इति रौद्रः (सु०) अथ स्थायिनश्चातुर्विध्यं लक्षयति-गुराविति । स्पष्टोऽर्थः ॥ ॥ -१४६०-१४६३- ॥ इति रौद्रः (क०) अथ वीरं लक्षयितुं तद्विभावानाह-अविस्मयादित्यादि। सतां धर्माद्यर्थविशेषेष्विति । आदिशब्देनार्थकामौ गृह्यते । अर्थविशेषाः Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy