SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४२० संगीतरत्नाकरः अश्रुपातो मुखे शोषो विलापः परिदेवनम् ॥ १४३६ ॥ स्तम्भो विवर्णता स्रस्तगात्रता प्रलयस्तथा । श्वासोच्छासौ देहपातघातोरस्ताडनादयः ॥ १४३७ ।। एते यत्रानुभावास्युरथ ग्लानिः श्रमो भयम् । मोहो विषादनिर्वेदौ चिन्तौत्सुक्ये च दीनता ॥ १४३८ ॥ जडताव्याधिरुन्मादालस्यापस्मारमृत्यवः । स्तम्भकम्पाशुवैवर्ण्यस्वरभङ्गादयस्तथा ॥ १४३९ ॥ यत्र संचारिणः स्थायी शोकः स करुणो मतः । व्यवस्थात्रानुभावानां योग्यत्वादुत्तमादिवु ॥ १४४० ॥ (क०) अनुभावानाह-अश्रुपात इत्यादि । संचारिण आहअथ ग्लनिरिरित्यादि ।। ननु स्तम्भादीनां सात्त्विकानामप्यनुभावलक्षण युक्तत्वेन तेषु परिगणनमस्तु ॥ -१४३६-१४३९. ।। (सु०) अस्यानुभावं लक्षयति--अश्रुपात इति । यत्र अश्रुपातमुखशोषविलापपरिदेवनस्तम्भविवर्णतास्रस्तगात्रताप्रलयश्वासोच्छासदेहपातघातोरस्ताड - नादय अनुभावा भवन्ति । यत्र ग्लानिश्रमभयमोहविषादनिर्वेदचिन्तौत्सुक्यदैन्यजाड्यन्याध्युन्मादालस्यापस्मारमृत्यवः, तथा स्तम्भकम्पाश्रुवैवर्ण्यस्वरभङ्गादयो व्यभिचारिणो भवन्ति । यत्र शोकः स्थायी भवति ; स करुण इत्यभिधीयते ॥ -१४३६-१४३९- ॥ (क०) संचारिषु कथं तेषां परिगणन मिति चेदुच्यते । सत्त्वप्राधान्येन प्रवृत्तानामपि स्तम्मादीनां "भावानां यानि कार्याणि नाट्यन्ते कुशलैनटैः । तेन भावा हेतवस्ते स्वहेत्वनुभवे यतः ॥" Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy