SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ४१० संगीतरत्नाकरः चिन्तासूयाश्रमौत्सुक्यनिर्वेदग्लानिमृत्यवः ॥ १३९६ ॥ उन्मादव्याध्यपस्मारविवोधजडतास्तथा । दैन्यं निद्रा तथा स्वमसुप्तचिन्तादयश्च ये ॥ १३९७ ॥ तदीयैरनुभावस्तु विप्रलम्भोऽभिनीयते । उन्मदादिदशां चातिकृष्टां नात्र प्रदर्शयेत् ॥ १३९८ ॥ न चात्र मरणं साक्षाद्दर्शयेत्तस्य सूचिकाम् । तदनन्तरजातां तु दर्शयेत्सुखिनी दशाम् ॥ १३९९ ॥ 'वाचा वाभिनयं तस्य सूचयेत्कृत्रिमं वदेत् । (सु०) शृङ्गारस्यानुभावं लक्षयति-कान्तेति । यत्र कान्ताख्या दृष्टिः ; कटाक्षाख्यं तारकाकर्म ; चतुरे भ्रुवौ ; मधुरा गिरः; पुलकमुखरागादिसूचित: सात्विकोत्कर इत्याद्याः शृङ्गारपोषका भवन्ति । आलस्यौग्यजुगुप्सावर्ज व्यभिचारिणश्च शृङ्गारे भवन्ति । इति संभोगचारपरिकरः ॥-१३९२-१३९५-॥ (क०) विप्रलम्भोचितान् संचारिण आह-चिन्ताम्येत्यादि। तदीयैरनुभावैरिति । चिन्तासूयादिसंबन्धिभिर्वक्ष्यमाणैरनुभावैः । वाचा वेत्यादि । तस्य ; मरणस्य, कृत्रिमम् अभिनयं वाचा सूचयेत् । वाग्रूपेण सूच्यभिनयेन वा वदेत् । आङ्गिकसात्त्विकाहार्यमरणं नैवाभिनयेदित्यर्थः ॥ ॥ -१३९६-१३९९- ॥ (मु०) विप्रलम्भं लक्षयति-चिन्तेति । विप्रलम्भशृङ्गारे तु कान्तादृष्टयाद्यनुभावो न भवति । शङ्कासूयाश्रमौत्सुक्यनिर्वेदग्लानिमरणोन्मादव्याध्यपस्मारविबोधजाड्यदैन्यनिद्रास्वप्नसुषुप्तिभिः, चिन्ताद्यैश्च तदीयैरनुभावैविप्रलम्भोऽभिनेयः । अत्र ; विप्रलम्भे, उन्मादादेः अतिकष्टा द्वशा न प्रदर्शनीया । दशां वा भाविनिधर्ना सूचयेन त्विमा वदेत् । इति सुधाकरसंमतः पाठः । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy