SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ફ્૮૮ संगीतरत्नाकरः भूलग्नाग्रस्य वामाङ्घ्रः पाष्य यद्धमिकुट्टनम् । भूलग्नाग्रस्य चान्यस्य भ्रमः सव्यापसव्यतः ॥ १३१२ ॥ isit खहुः प्रोक्तो घर्घरो नृत्तकोविदैः । दिशानया परेऽप्यूह्या घर्घराः शोभयान्विताः ।। १३१३ ॥ सर्वे घर्घर भेदास्ते कार्यास्तालानुगामिनः । इति खलुहुल: ( ६ ) अत्र चोत्लुतिपूर्वं स्यात्करणं विषमाभिधम् ।। १३१४ ॥ विकृतार्थानुकारस्तु बुधैर्भावाश्रयो मतः । कविचारो भवेदत्रोत्तमनायकवर्णनम् ॥ १३१५ ॥ अत्र स्यात्सालगं गीतं यदुक्तं गौण्डलीविधौ । इति पेरणिलक्षणम् | (सु०) खल्लुहुलं लक्षयति — भूलनामेति । यत्र भूलग्नाग्रस्य वामाङ्घ्र: पायद् भूमिकुट्टनम् ; भूलग्नाग्रस्य अन्यस्य दक्षिणपादस्य सव्यापसव्यतो भ्रमणं खलुहुल: । अनया दिशा अपरे घर्घरा अप्यूह्या: । ते सर्वे घर्घर भेदाः शोभया अन्विताः तालानुगामिनश्च कार्याः ॥ १३१२, १३१३- ॥ इति खलहुलः (६) विषमाख्यमङ्गमाह – अत्र चेति । उत्प्लुतिपूर्वं करणं पूर्वोक्तमश्चितादिषट् त्रिंशद्भेदभिन्नम् भावाश्रयाख्यमङ्गं लक्षयति — विकृतार्थानुकार इति । पेरणिना सामाजिकानां हास्योत्पादनाय क्रियमाणं विकृतपदार्थानुकरणं यद्विद्यते स भावा श्रयः । कविचारं लक्षयति - उत्तमनायक वर्णन - मिति । गीताख्यमङ्गमाह - अत्र स्यात्सालगं गीतमिति । सालगं गीतं द्रुतादिकम् ॥ - १३१४-१३१५- ॥ इति पेरणिलक्षणम् । (सु० ) विषमाख्यमङ्गं लक्षयति - अत्रेति । उत्पल्लुतिपूर्व करणं विषम Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy