SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ शिवाभ्यां नमः श्री-निःशङ्क-शार्ङ्गदेव-प्रणीतः संगीतरत्नाकरः चतुरकल्लिनाथ-विरचितया कलानिध्याख्यटीकया सिंहभूपालविरचितया संगीतसुधाकराख्यटीकया च समेतः सप्तमो नर्तनाध्यायः आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् । आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ १॥ कलानिधिः अथ गीतवाद्योपकार्यत्वेनाभेदातिशयोपायभूतं नर्तनं प्रतिपिपादयिषुः शार्ङ्गदेवः प्रकरणादौ तत्परिसमाप्त्यादिफलाकाङ्क्षया समुचितेष्टदेवतां नर्तनस्पृष्टगुणत्वेन स्तौति-आङ्गिकमित्यादिना । भुवनम् ; परिदृश्यमानप्राणिलोकः ; यस्य ; शिवस्य ; आङ्गिकम् ; अङ्गव्यापारो भवति । शिवस्य जगद्रूपत्वादिति भावः । सर्ववाङ्मयम् ; वेदशास्त्रादिसमस्तं शब्दजातं यस्य वाचिकं वाग्व्यापारो भवति । चन्द्रतारादि ; चन्द्रादिज्योतिषां Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy