SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ૨૪ संगीतरत्नाकरः अनुवृत्तिर्मुखरिण तल्लयोर्न्यूनपूरणम् ।। १२५८ ॥ तालानुवृत्तिरित्येते चत्वारः कुटिले गुणाः । संप्रदायस्य दोषः स्यादेतद्गुणविपर्ययः ।। १२५९ ॥ इति संप्रदायगुणदोषाः । अथ शुद्धपद्धति : संगीतज्ञैर्बुधैः सार्धं नायके प्रेक्षके स्थिते । प्रविश्य रङ्गभूमिं ते तिष्ठन्तः सांप्रदायिकाः ।। १२६० ।। वाद्यानां नादसाम्यं च कृत्वावस्थितमानसाः । मेलापकं वादयेयुः प्रबन्धं गजरं ततः ।। १२६१ ॥ ततो जवनिकान्तर्धौ दधानं कुसुमाञ्जलिम् । पात्रं तिष्ठेदधिष्ठाय स्थानकं सौष्ठवान्वितम् ।। १२६२ । ततश्वोपसमारम्भेऽन्तर्धाने चापसारिते । सभाजनमनोहारि पात्रं रङ्गभुवं विशेत् ।। १२६३ ।। (क०) संप्रदायस्य गुणानाह - अनुवृत्तिर्मुखरिण इत्यादि । संप्रदायस्य दोषानाह – एतद्गुणविपर्यय इति ॥ १२५८, १२५९ ॥ इति संप्रदायगुणदोषाः । (सु०) संप्रदायगुणदोषान् लक्षयति - अनुवृत्तिरिति । मुखरिणोऽनुवृत्तिः, तस्य लय:, न्यूनपूरणम्, तारानुवृत्तिरित्येते चत्वारः संप्रदायगुणा: ; एतद्गुणविपर्यये दोषाः स्युः ॥ -१२५८, १२५९ ॥ इति संप्रदाय गुणदोषाः | (क०) संप्रदायस्य शुद्धपद्धतिमाह - संगीतज्ञैर्बुधैः सार्धमित्यादि । मेलापकं वादयेयुरित्यादि । मेलापकादयो वाद्यप्रबन्धाः पूर्वोक्तलक्षणा Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy