________________
३५९
सप्तमो नर्तनाध्यायः षट्कृत्वः सप्तकृत्वो वा कृत्वा चारीरिमाः क्रमात् । चतुर्दिक्षु द्रुतं भ्रान्त्वा परिमण्डलिताकृतिः ॥ १२०० ॥ दक्षिणाङ्घावपक्रान्तां वामे तु चरणे क्रमाव । अतिक्रान्ता भ्रमरिके ललितैश्चरणक्रमैः ॥ १२०१ ॥ करोति यत्र तत्माहरलातं मण्डलं बुधाः ।
इत्यलातम् (९) सूच्यधिदक्षिणो वामस्त्वपक्रान्तोऽथ दक्षिणः ॥ १२०२ ।। पार्थक्रान्तत्वमागत्य भुजङ्गत्रासितो भवेत् । अतिक्रान्तस्तु वामाज्रिराक्षिप्तो दक्षिणस्ततः ॥ १२०३ ॥ वामोऽतिक्रान्तता नीत्वोरूवृत्तोऽलातकः क्रमात् । पार्थक्रान्तो दक्षिणः स्याद्वामः सूच्यथ दक्षिणः ॥ १२०४ ॥ अपक्रान्तो वामपादस्त्वतिक्रान्तीकृतो यदा । ललितं संचरेदुक्तं ललितं मण्डलं तदा ॥ १२०५ ॥
इति ललितम् (१०) इति दशाकाशिकमण्डलानि ।
इति मण्डललक्षणम् । दक्षिणो भुजङ्गत्रासितामलातां च चारी तनुते । एवं षद्कृत्वो वा, सप्तकृत्वो वा एताश्वारीः कृत्वा, ततो दिक्चतुष्टये द्रुतं भ्रान्त्वा, परिमण्डलिताकारः दक्षिणोऽपक्रान्तां चारी, ततो वामोऽतिक्रान्तां भ्रमरीं च तनुते; तद् अलातम् ॥ ११९९-१२०१- ॥
इत्यलातम् (९) (१०) ललितं लक्षयति-सूच्यविरिति । यत्र दक्षिणः सूची, वामोऽपक्रान्तः, पुनर्दक्षिणः पार्श्वक्रान्तो भुजङ्गत्रासितश्च ; वामोऽतिक्रान्तः, ततो
Scanned by Gitarth Ganga Research Institute