SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३४९ सप्तमो नर्तनाध्याय: दक्षिणो जनितो वामः स्पन्दितो दक्षिणः पुनः । शकटास्यस्तथा वामः पादोऽवस्पन्दितोऽथवा ॥ ११४९ ॥ दक्षिणो भ्रमरो वामः स्यन्दितोऽघ्रिरथेतरः । शकटास्यश्चाषगतिर्वामोऽन्यो भ्रमरो भवेत् ॥ ११५० ॥ वामान्ते स्पन्दितो यत्र तदूचे भ्रमरं बुधैः। इति भ्रमरम् (१) दक्षिणो भ्रमरो वामोऽडितोऽथ भ्रमरः स चेत् ॥ ११५१ ॥ दक्षिणः शकटास्यत्वं गत्वोरुत्ततां गतः । (सु०) आकाशिकस्य भेदानाह-अतिक्रान्तमिति । अतिक्रान्तम् , दण्डपादम् , क्रान्तम् , ललितसंचरम् , सूचीविद्धम् , वामविद्धम् , विचित्रम् , विहृतम् , अलातम् , ललितमित्याकाशमण्डलानि दश । भौमाकाशिकानां चारीणां प्राचुर्यात् मण्डलान्यपि भौमानि आकाशिकानीति व्यपदेशः । एतेषां विनियोगस्तु शस्त्रमोक्षणे विज्ञेयः । नभोभवानां युद्धपरिक्रमे प्राधान्यं बोध्यम् , मण्डलचारीणां न्यूनताधिक्ये न दोषाय ॥ ११४३-११४८ ॥ (क०) मण्डलानां लक्षणानि ग्रन्थत एव सुबोधानि ॥ -११४९, ११७३ ॥ (सु०) भ्रमरं लक्षयति-दक्षिण इति । यत्र दक्षिणः पादो जनितः, वामपाद: स्पन्दितः, पुनर्दक्षिणः शकटास्यः, पुनर्वामः स्पन्दितः ; यद्वा दक्षिणो भ्रमरः, वाम: स्पन्दितः, पुनर्दक्षिणः शकटास्यः, पुनर्वाम: चाषगतिः, पुनर्दक्षिणो भ्रमरः, अन्ते वामः स्पन्दितश्च भवति । तद् भ्रमरमित्युच्यते ॥ ॥ ११४९-११५०-॥ ___ इति भ्रमरम् (१) (सु०) आस्कन्दितं लक्षयति-दक्षिण इति । यत्र दक्षिणो भ्रमरः, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy