SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः ३३५ आकुञ्चितः पुरो वामः पश्चादन्यस्तु जानुना । भुवं गतौ यदा पादौ गारुडं गदितं तदा ॥ १०९१॥ इति गारुडम् (२०) दक्षिणश्चरणो जानुबाह्यगुल्फमिलक्षितिः । वामः समो भवेद्यत्र कूर्मासनमदो विदुः ॥ १०९२ ॥ इति कूर्मासनम् (२१) यदोपविश्य वामोरोः पृष्ठे न्यस्यति दक्षिणाम् । जवां तदा नागबन्धमभ्यधात्करणाग्रणीः ।। १०९३ ।। इति नागबन्धम् (२२) वियुते संयुते वा चेन्जानुनी संस्थिते क्षितौ । वृषभासनमाख्यातं सौष्ठवाधिष्ठितं तदा ॥ १०९४ ॥ इति वृषभासनम् (२३) इति त्रयोविंशतिर्देशीस्थानानि । (सु०) गारुडं लक्षयति-आकुञ्चित इति । यत्र वामः पादः पुरः कुञ्चितः, अन्य: पाद: जानुभूमिगतो भवति ; तद गारुडम् ॥ १०९१ ॥ ___ इति गारुडम् (२०) (सु०) कूर्मासनं लक्षयति-दक्षिण इति । यत्र दक्षिणः पादः जानुबाह्यगुल्फमिलितभूमिः, वामश्च समो भवति ; तत् कूर्मासनम् ॥ १०९२ ॥ इति कूर्मासनम् (२१) (सु०) नागबन्धं लक्षयति-यदेदि । यदा उपविश्य वामोरुपृष्ठे दक्षिणजङ्घाध्यस्यते ; तदा नागबन्धम् ॥ १०९३ ॥ ___ इति नागबन्धम् (२२) (सु०) वृषभासनं लक्षयति-वियुत इति । यत्र जानुनी संयुज्य, वियुज्य वा भूस्थिते भवतः ; तत् सौष्ठवाधिष्ठितं वृषभासनं भवति ॥ १०९४ ॥ इति वृषभासनम् (२३) इति त्रयोविंशतिर्देशीस्थानानि । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy