________________
३२४
संगीतरत्नाकरः वामो यत्र निषण्णोरुरम्बरे पूर्वमानतः । दक्षिणश्चरणश्चाग्रे पश्चतालं प्रसारितः ॥ १०४९ ॥ त्र्यौ द्वावपि तद्विद्यादालीढं रुद्रदैवतम् । ईर्ष्याक्रोधकृतो जल्पः कार्यस्तेनोत्तरोत्तरः ॥ १०५० ॥ वीररौद्रकृतं मल्लसंघर्षास्फोटनादिकम् । तथा संधाय शस्त्राणि प्रत्यालीढं समाश्रयेत् ॥ १०५१ ॥
इत्यालीढम् (५) आलीढाङ्गविपर्यासात्मत्यालीढमुदीरितम् । आलीढकृतसंधानशस्त्रमेतेन मोक्षयेत् ॥ १०५२ ।। रुद्रं च दैवतं तत्र भापते शंभुवल्लभः । एषामाद्यानि चत्वारि दृश्यन्ते नाट्यनृत्तयोः ।। १०५३ ॥
भूमौ त्र्यश्रौ भवतः, कटीजानुसमं सार्धतालद्वयान्तरे नभसि ऊरू निषण्णौ भवतः, तत् शक्रदेवताकं मण्डलं स्थानं भवति । तच्च धनुर्वमादिशस्त्रप्रयोगे, गजवाहने, गरुडादिवीक्षणे च प्रयोज्यम् । अन्ये आचार्याः, अत्र मण्डलस्थानके चतुस्तालान्तरालौ प्रचक्षते ॥ १०४६-१०४८ ॥
इति मण्डलम् (४)
(सु०) आलीढं लक्षयति-वाम इति । यत्र वामः पादः आकाशे प्रथममानत: दक्षिणपादश्च अग्रे तालपञ्चकान्तराले प्रसारितो भवति, पादद्वयमपि त्र्यनं भवति ; तद् रुद्रदेवताकमालीढं स्थानं भवति । तच्च ईर्ष्याक्रोधकृते जल्पे, वीररौद्रकृते मल्लसंवर्षास्फोटनादिके शस्त्रसंधाने च कार्यम् ॥ १०४९१०५१॥
इत्यालीढम् (५)
Scanned by Gitarth Ganga Research Institute