SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३१९ सप्तमो नर्तनाध्यायः संनिवेशविशेषोऽङ्गे निश्चलः स्थानमुच्यते । वैष्णवं समपादं च वैशाखं मण्डलं तथा ॥ १०१९ ॥ आलीढप्रत्यालिडे च स्थानानीति नरेषु षट् । अथ स्थानानि वक्ष्यामस्त्रीणि स्त्रीणां मुनेर्मतात् ॥ १०२० ॥ आयताख्यावहित्थाश्वक्रान्तान्यन्यच्चतुष्टयम् । अथापि चेति वदता मुनिना सूचितं ब्रुवे ।। १०२१ ।। गतागतं च वलितं मोटितं विनिवर्तितम् । अथ देशीस्थानकानां त्रयोविंशतिरुच्यते ।। १०२२ ॥ स्वस्तिकं वर्धमानाख्यं नन्द्यावर्त च संहतम् । समपादं चैकपादं पृष्ठोत्तानतलं तथा ॥ १०२३ ।। चतुरश्रं पाणिविद्धं पाणिपार्श्वगतं तथा । एकपार्श्वगतं च स्यादेकजानुनताभिधम् ।। १०२४ ।। परावृत्ताहयं सूचि समादि विषमाद्यपि । खण्डसूचि ततो ब्राह्म वैष्णवं शैवगारुडे ।। १०२५ ॥ कूर्मासनं नागबन्धं वृषभासनमित्यपि । स्वस्थ मदालसं क्रान्तं स्याद्विष्कम्भितमुत्कटम् ॥ १०२६ ॥ स्रस्तालसं जानुगतं मुक्तजानु विमुक्तकम् । उपविष्टस्थानकानि नवेति भरतोऽब्रवीत् ॥ १०२७ ।। सममाकुश्चितं स्थानं प्रसारितविवर्तिते । उद्वाहितं नतं चेति सुप्तस्थानानि सन्ति षट् ॥ १०२८ ।। इति स्थानानि षट्पुंसां स्त्रीणां सप्तापराण्यपि । (क०) तद्भेदानुद्दिशति-वैष्णवमित्यादि । वैष्णवादिष्वेकपश्चा Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy