SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २८८ संगीतरत्नाकर: निषण्णोरुः समो वामो दक्षिणोऽङ्घ्रिः प्रसारितः । पञ्चतालान्तरं तिर्यग्यस्यां सा स्पन्दिता मता ।। ९३५ ।। इति स्पषन्दिता ( १२ ) अङ्घ्रिचारविपर्यासात्सैवावस्पन्दिता मता । इत्यवस्पन्दिता (१३) ऊरुद्वयस्य वलनं जङ्घास्वस्तिकसंयुतम् ।। ९३६ ॥ भङ्क्त्वा वा स्वस्तिकं पादतलाग्रे मण्डलभ्रमम् | कृत्वा पार्श्व गते स्वं स्वं यत्र बद्धेति सा मता ।। ९३७ ॥ इति बद्धा (१४) चारी सा जनिता यस्यां पादोऽग्रतलसंचरः । (सु०) स्पन्दितं लक्षयति-निषण्ण इति । यत्र निषण्णोरुः, वामपादः समः, दक्षिणपादः पञ्चतालान्तरं तिर्यक् प्रसारितो भवति ; सा स्पन्दिता ॥ ९३५ ॥ इति स्पन्दिता ( १२ ) (सु०) भवस्पन्दितां लक्षयति - अङ्घ्रीति । यत्र अङ्घ्रिचारविमर्यासात् ; पादचारव्यत्यासात्; सेव ; स्पन्दितैव अवस्स्पन्दिता भवति ॥ ९३५ ॥ इत्यवस्पन्दिता (१३) (सु०) बद्धां लक्षयति – ऊरुद्वयस्येति । यत्र ऊरुद्वयस्य वलनम् ; प्रत्येकं जङ्घा स्वस्तिकसंयुतं वा कृत्वा, पादतलेन अग्रे मण्डलभ्रमं विधाय स्वस्वपार्श्व गच्छतः ; सा बद्धा ॥ -९३६, ९३७ ॥ इति बद्धा (१४) (सु० ) जनितां लक्षयति - चारीति । यत्र पादः अप्रतलसंचरो भवति ; Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy