SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः नूपुरात्करणादूर्ध्व भुजङ्गाश्चितमाचरेत् । गृधावलीनकं द्वे च विक्षिप्ते पृथगङ्गजे ।। ८८१ ॥ उद्वृत्तमध्येर सूच्याख्यं नितम्बमथ वृश्चिकम् । लतापूर्व कटीछिन्नं नवभिः करणैरिति ।। ८८२ ।। दत्तको द्विर्विक्षिप्तोदवृत्ताख्यमधिकं द्वयम् । इत्युद्वृत्तकः (१४) विक्षिप्तमञ्चितं गण्डसूचीचि सर्वान्तिमं ततः ।। ८८३ ॥ अर्धसूचि ततो दण्डपादं वामाङ्गसाधितम् । चतुरं भ्रमरं चाथ नूपुराक्षिप्तनामके || ८८४ ।। अर्धस्वस्विकसंज्ञं च नितम्बं करिहस्तकम् । उरोमण्डलसंज्ञं च कटीछिन्नमिति क्रमात् ।। ८८५ ॥ करणैः पञ्चदशभिः संभ्रान्तमभणन्बुधाः । इति संभ्रान्त: (१५) २७३ ( सु० ) उद्वृत्तकं लक्षयति- नूपुरादिति । अत्र नूपुरम् भुजङ्गाचि - तम् गृध्रावलीनकम्, विक्षिप्तम्, उद्वृत्तम्, उद्घट्टितम्, नितम्बम्, लतावृश्चिकम्, कटीच्छिन्नमिति नवभिः करणैः उदवृत्तः कार्यः ॥८८१, ८८२ - ॥ इत्युद्वृत्तकः (१४) (सु०) संभ्रान्तं लक्षयति--विक्षिप्तमिति । अत्र विक्षिप्तम्, अश्चितम् गण्डसूचि, गङ्गावतरणम्, अर्धसूचि, दण्डपादम्, चतुरम्, भ्रमरम्, नूपुरम्, आक्षिप्तम्, अर्धस्वस्तिकम्, नितम्बम्, करिहस्तम्, उरोमण्डलम्, कटीच्छिन्नमिति क्रमेण पञ्चदशभिः करणैः संभ्रान्तः कार्यः ॥ -८८३-८८५-॥ इति संभ्रान्त: (१५) 35 Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy