________________
२६८
संगीतरत्नाकरः स्वस्तिकाद्यं रचितं स्यात्पृष्ठस्वस्तिकसंज्ञकम् ॥ ८५० ॥ दिक्स्वस्तिकं कटीछिन्नं समं घूर्णितनामकम् । भ्रमरं वृश्चिकाद्यं च रेचितं पार्थपूर्वकम् ।। ८५१ ॥ निकुट्टकमुरःपूर्व मण्डलं संनतं ततः। सिंहाकर्षितकं नागापसर्पितसमाह्वयम् ॥ ८५२ ॥ अथ वक्षःस्वस्तिकं तु केचिदिच्छन्ति सूरयः। दण्डपक्षं च करणं ललाटतिलकाह्वयम् ।। ८५३ ॥ वृश्चिकं तु लताद्यं च भवेदथ निशुम्भितम् । विद्युभ्रान्ताभिधादूर्ध्व गजविक्रीडितं ततः ॥ ८५४ ।। नितम्बविष्णुक्रान्ताख्योरूवृत्ताक्षिप्तकानि च । उरोमण्डलसंज्ञं च नितम्ब करिहस्तकम् ।। ८५५ ।। वैकल्पिकं कीछिन्नमिच्छन्त्याक्षिप्तरेचिते । पञ्चविंशतिसंख्यानि करणानि पुरातनाः ॥ ८५६ ।। नितम्बोरोमण्डलयोस्त्वावृत्त्या सप्तविंशतिः । ये वक्षःस्वस्तिकं नात्र कटीछिन्नं च मन्यते ॥ ८५७ ॥ पञ्चविंशतिरेव स्यादासत्तावपि तन्मते ।
इत्याप्तरेचितः (७)
(सु०) आक्षिप्तरेचितं लक्षयति-स्वस्तिकाद्यमिति । यत्र स्वस्तिकरेचितम् , पृष्ठस्वस्तिकम् , दिक्स्वस्तिकम् , कटीसमम् , पूर्णितम् , भ्रमरम् , वृश्चिकरेचितम्, पार्श्वनिकुट्टकम् , उरोमण्डलम् , संनतम् , सिंहाकर्षितम् , नागापसर्पितम् , वक्षःस्वस्तिकम् , दण्डपक्षम् , ललाटतिलकम् , लतावृश्चिकम् , विद्युभ्रान्तम् , गजविक्रीडितम्, नितम्बम् , विष्णुकान्तम्, ऊरूवृत्तम्,
Scanned by Gitarth Ganga Research Institute