SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६० संगीतरत्नाकरः वैशाखरेचितं द्वाभ्यामनाभ्यामय नूपुरम् । भुजङ्गत्रासितोन्मत्तमण्डलस्वस्तिकान्यथ ।। ८१२ ॥ निकुट्टकोरूद्वृत्ताख्याक्षिप्तोरोमण्डलानि च । करिहस्तं कटीछिन्नमित्येकादशभिः क्रमात् ॥ ८१३ ।। करणैरङ्गहारः स्यानाम्ना वैशाखरेचितः । इति वैशाखरेचितः (५) दिक्स्वस्तिकं ततश्चाङ्गेनैकेनार्धनिकुट्टकम् ॥ ८१४ ॥ पुनर्दिक्स्वस्तिकमथान्याङ्गेनार्धनिकुट्टकम् । अपविदोख्दवृत्ताख्ये तथाक्षिप्तं नितम्बकम् ।। ८९५ ॥ फरिहस्तं कटीछिन्नमष्टभिः करणैरिति । स्यात्पार्धस्वस्तिकोऽभ्यासात्त्वाद्ययोर्दशभिर्भवेत् ॥ ८१६ ॥ इति पार्श्वस्वस्तिकः (६) (सु०) वैशाखरेचितं लक्षयति-वैशाखेति । यत्र अङ्गद्वयेन वैशाखरेचितम् , ततो नूपुरम् , भुजङ्गत्रासितम् , उन्मत्तम , मण्डलस्वस्तिकम् , निकुट्टकम् , ऊरूवृत्तम् , आक्षिप्तम् , उरोमण्डलम् , करिहस्तम् , कटीच्छिन्नमित्येकादशभिः करणैर्युक्तो वैशाखरेचिताख्योऽङ्गहारो भवति ॥ ८१२, ८१३- ॥ वैशाखरेचित: (५) (सु०) पार्श्वस्वस्तिकं लक्षयति-दिक्स्वस्तिकमिति । यत्र दिवस्वस्तिकम् , तत एकेनाङ्गेन कृतमर्धनिकुट्टकम् , पुनः दिक्स्वस्तिकम्, ततोऽन्याड्रेन कृतमर्धनिकुट्टकम् , अपविद्धम् , ऊरूवृत्तम् , आक्षिप्तम् , नितम्बकम् , करिहस्तम् , कटीच्छिन्नमित्यष्टभिः, आद्ययोरभ्यासेन दशत्वं गतः करणैरुपलक्षितः पार्श्वस्वस्तिकाख्योऽङ्गहारो भवति ॥ -८१४-८१६ ॥ पास्वस्तिकः (6) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy