SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २५८ संगीतरत्नाकरः लीनं समनखं कृत्वा व्यंसितं चात्र विच्युतौ ॥ ८०२ ॥ करौ कृत्वोज्झितालीढः प्रत्यालीढं व्रजेत्ततः । निकुट्टकोरूद्वत्ताख्यस्वस्तिकाक्षिप्तकान्यथ ।। ८०३ ॥ नितम्ब करिहस्तं च कटीच्छिन्नमिति क्रमात् । करणैः स्थिरहस्तः स्यादशभिः शिववल्लभः ।। ८०४ ॥ अङ्गहारेषु सर्वेषु प्रत्यालीढान्तमादितः । प्रयोक्तव्यमिति प्राहुः केचिन्नाव्यविशारदाः ।। ८०५ ॥ इति स्थिरहस्तः (१) तलपुष्पपुटं पूर्वमपविद्धं च वर्तितम् । निकुट्टकोरूवृत्ताख्याक्षिप्तोरोमण्डलान्यथ ।। ८०६ ॥ नितम्ब करिहस्तं च कटीछिन्नमिति क्रमात् । दशभिः करणैरेभिः प्रोक्त पर्यस्तको बुधैः ।। ८०७ ।। ___ इति पर्यस्तकः (२) (क०) अङ्गहाराणां विशेषलक्षणानि ग्रन्थत एव सुबोधानि ॥ ॥ ८०२-८९१ ॥ . (मु०) स्थिरहस्तस्य लक्षगमाह-लीनमिति । लीनं, समनखं, व्यंसितं च कृत्वा हस्तौ विच्युतौ कुर्यात् । आलीढं स्थानकं कृत्वा, प्रत्यालीढं व्रजेत् । ततः निकुट्टकम् , ऊरूवृत्तम् , स्वस्तिकम् , आक्षिप्तकम , नितम्बम् , करिहस्तम् , कटीच्छिन्नमिति क्रमात् दशभिः करणैर्युक: स्थिरहस्ताख्योऽङ्गहारः। केचित् आचार्याः सर्वेषु अङ्गहारेषु आदित: प्रत्यालीढान्तं प्रयोक्तव्यमित्याहुः ॥ -८०२-८०५ ॥ इति स्थिरहस्तः (१) (सु०) पर्यस्तकं लक्षयति-तलपुष्पपुटमिति । तलपुष्पपुटम् , अप Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy