SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २४७ सप्तमो नर्तनाध्यायः परिवर्तेत यत्राधः करस्पर्शनमूचिरे । इति करस्पर्शनम् (१९) उत्प्लुत्यान्यतमां सूची खे कृत्वा भजते क्षितौ ॥ ७७१ ।। यदोत्कटासनं चोर्ध्वस्थानमेणप्लुतं तदा । इत्येणप्लुतम् (२०) तिर्यगेकेन पादेन समुत्प्लुत्य निपत्य चेत् ॥ ७७२ ।। तिष्ठे व्यघ्रिणान्येन स्यात्तिर्यकरणं तदा । ___इति तिर्यकरणम् (२१) समपादात्परं तिर्युगुत्प्लुतौ तिर्यगश्चितम् ॥ ७७३ ॥ ___इति तिर्यगश्चितम् (२२) हस्तेन भूमिमाश्रित्य, अध: परिवर्तने कृते सति ; करस्पर्शनाख्यं करणं भवति ॥-७७०, ७७०-॥ इति करस्पर्शनम् (१९) (सु०) एणप्लुतं लक्षयति-उत्प्लुत्येति । यत्र उत्प्लवनं विधाय, यां कांचित् सूर्ची गगने कृत्वा, यदि भूमौ ऊर्ध्वस्थानमुत्कटासनं क्रियते; तत् एणप्लुताख्यं करणं भवति ॥ ७७१, ७७१- ॥ ___ इत्येणप्लुतम् (२०) (सु०) तिर्यकरणं लक्षयति-तिर्यगिति । एकेन पादेन तिर्यगुत्प्लुत्य, अन्येन चरणेन भूमौ यदि तिष्ठति, तदा तिर्यक्करणम् ॥ -७७२, ७७२- ॥ इति तिर्थक्करणम् (२१) (सु०) तिर्यगश्चितं लक्षयति-समपादेति । समपादेन स्थित्वा, तिर्यगुत्प्लवने, तिर्यगञ्चिताख्यं करणं भवति ॥ -७७३ ॥ इति तिर्यगवितम् (२२) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy