SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः एकाध्रिजा त्वेकपादलोहडी संमता सताम् । इत्येकपादलोहडी, एकपादठितं वा (१२) वैष्णवे स्थानके स्थित्वा पतेत्पार्थेन चेद्भुवि ॥ ७६५ ॥ करणं दर्पसरणं तदाह करणाधिपः । इति दर्पसरणम् (१३) तदेव जलशय्याख्यमासने जलशायिवत् ।। ७६६ ॥ इति जलशयनम् (१४) नागबन्धं तदेव स्यानागवन्धवदासने । इति नागबन्धम् (१५) (सु०) एकपादलोहडी लक्षयति–एकेति । एकचरणोद्भवा लोहडी एकपादलोहडी भवति ॥ ७६४.॥ इत्येकपादालोहडी, एकपादलुठितं वा (१२) (सु०) दर्पसरणं लक्षयति-वैष्णव इति । यत्र वैष्णवाख्ये स्थानके स्थित्वा, यदि भुवि पार्श्वन पतेत् ; तत् दर्पसरणाख्यं करणं भवति ॥ ।। -७६५, ७६५- ॥ ___इति दर्पसरणम् (१३) (सु०) जलशयनं लक्षयति-तदेवेति । तदेव दर्पसरणमेव यत्र जलशायिवत् आसने क्रियमाणे सति ; जलशयनाख्यं करणं भवति ॥ -७६६ ॥ इति जलशयनम् (१४) (सु०) नागबन्धं लक्षयति-नागबन्धमिति । तदेव दर्पसरणमेव यत्र नागबन्धासने क्रियमाणे सति ; नागबन्धाख्यं करणं भवति ॥ ७६६ ॥ इति नागबन्धम् (१५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy