________________
सप्तमो नर्तनाध्यायः
सविस्मये व्योमयानवाञ्छादौ विनियुज्यते । इति वृश्चिककुट्टितम् (४७)
२१७
यत्राङ्घ्री वृश्चिकीभूतौ स्वस्तिकौ रेचितौ करौ ।। ६६१ ॥ विच्युतौ चेत्तदाकाशयाने वृश्चिकरेचितम् ।
इति वृश्चिक रेचितम् (४८)
विवरणो यत्र वामहस्तो लताभिधः ।। ६६२ ॥ लतावृश्चिकं योज्यं गगनोत्पतने बुधैः ।
इति लतावृश्चिकम् (४९)
आक्षिप्ता यत्र चारी स्यादाक्षिप्तः खटकामुखः ॥ ६६३ ॥
कृत्वा, अलपद्मौ बाहुशिखरे क्रमात् निकुटयेते, तत्र वृश्चिककुट्टिताख्यं करणम् । तच्च विस्मये व्योमयाने च प्रयोज्यम् ॥ ६६०, ६६० ॥ इति वृश्चिकनिकुट्टकम् (४७)
(सु० ) वृश्चिकरेचितं लक्षयति-यत्रेति । पादे वृश्चिकतां प्राप्ते, करौ स्वस्तिकरेचितौ विच्युतौ च भवतः ; तत्र वृश्चिकरे चिताख्यं करणं भवति । तच्च आकाशयाने प्रयोज्यम् ॥ -६६१, ६६१- ॥ इति वृश्चिक रेचितम् (४८)
(सु० ) लतावृश्चिकं लक्षयति - वृश्चिक इति । यत्र चरणे वृश्चिके सति, वामहस्तो लताकर:; तत्र लतावृश्चितम् । तच्च गमने, उत्पतने च प्रयोज्यम् || -६६२, ६६२- ॥
इति लतावृश्चिकम् (४९)
( सु० ) आक्षिप्तं लक्षयति- आक्षिप्ता इति । यत्र आक्षिप्ताख्या
28
Scanned by Gitarth Ganga Research Institute