SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०२ संगीतरनाकरः करिहस्तोऽलपद्मत्वं धत्ते स्यादश्चितं तदा ॥ ५९४ ॥ संमुखप्रेक्षणे तच्च योज्यं स्वस्यातिकौतुकात् । इत्यश्चितम् (१२) चतुरश्रकरः स्थित्वा हस्तं व्यावर्त्य दक्षिणम् ॥ ५९५ ॥ निष्क्रामयन्भजेचारीमाक्षिप्तामथ दक्षिणम् । शुकतुण्डं करं तस्यैवोरौ तु परिपातयेत् ॥ ५९६ ॥ यत्रापविद्धं तद्वामे वक्षस्थे खटकामुखे । तत्कोपासूययोर्योज्यमुक्तं सोढलसूनुना ॥ ५९७ ॥ इत्यपविद्धम् (१३) देहः स्वाभाविको यत्र पादौ समनखौ युतौ । लताहस्तौ समनखं स्यात्प्रवेशे तदादिमे ॥ ५९८ ॥ इति समनखम् (१४) करणं भवति । तच्च स्वस्य अतिकौतुकात् संमुखप्रेक्षणे प्रयोज्यम् ॥ ॥ ५९४, १९४-॥ इत्यचितम् (१२) (सु०) अपविद्धं लक्षयति-चतुरश्रकर इति । दक्षिगं हस्तं चतुरश्रानन्तरं व्यावर्तितं विधाय, तस्य निःक्रमणसमये, आक्षिप्तां चारी कुर्यात् । ततः तमेव दक्षिणहरतं शुकतुण्डं वामोरूपरि पातयेत् । वामहरतं च वक्षःस्थितं खटकामुखं च कुर्यात् । तदपविद्धाख्यं करणं भवति । तच्च कोपासूययोर्योज्यम् ॥ ॥ -५९५-५९७॥ इत्यपविद्धम् (१३) (सु०) समनखं टक्षयति-देह इति । यत्र देहः स्वाभाविकोऽविकृतः, Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy