SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ १९८ संगीतरत्नाकरः वक्ष क्षेत्रे समं हस्तौ व्यावृत्तपरिवर्तितौ ॥ ५७६ ॥ विधायाक्षिप्तया चार्या संहतौ परिवर्तनात् । तत्रानीय निधीयेते शुक्रतुण्डावधोमुखौ ।। ५७७ ॥ पद्धया ते स्थितिर्यत्र वलितोरु तदुच्यते । मुग्धस्त्रीव्रीडिते चास्य प्रयोगः शाणिोदितः ॥ ५७८ ॥ इति वलितोह (४) चतुरश्रौ करौ कृत्वा विदधद्विच्यवां ततः। उद्वेष्टितक्रियापूर्वमूर्ध्वमण्डलिनौ करौ ॥ ५७९ ॥ विधाय स्वस्तिकौ कुर्यादत्र स्थानं च मण्डलम् । मण्डलस्वस्तिकं तत्स्यात्मसिद्धार्थावलोकने ॥ ५८० ॥ इति मण्डलस्वस्तिकम् (५) (सु०) वलितोरु लक्षयति-वक्ष:क्षेत्र इति । यत्र समकालमेव हस्तौ व्यावृत्तपरिवर्तितौ विधाय, आक्षिप्तया चार्या परिवर्तनात् संहतो कृत्वा, तत्र वक्षसि तावानीय, शुकतुण्डौ अधोमुखौ कृत्वा, बद्धया स्थितिश्च यत्र कल्प्यते, तद् वलितोरु भवति । अस्य मुग्घस्त्रीबीडिते प्रयोगः ॥ -६७६-१७८ ॥ इति वलितोरु (१) __ (सु०) मण्डलस्वस्तिकं लक्षयति-चतुरश्राविति । यत्र पूर्व चतुरश्रौ हस्तौ विधाय विच्यवाख्यां चारी कुर्वन् , उद्वेष्टतक्रियापूर्व करौ ऊर्ध्वमण्डलिनी विधाय स्वस्तिको कुर्यात् । ततो मण्डलाख्ये वक्ष्यमाणे स्थानके यदि तिष्ठति, तदा मण्डलस्वस्तिकाख्यं करणं भवति । तच्च प्रसिद्धार्थावलोकने कार्यम् ॥ ५७९, ५८० ॥ इति मण्डलस्वस्तिकम् (५) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy