SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः गजविक्रीडितं गण्डसूची स्याद्रुडप्लुतम् । तलसंस्फोटितं पार्वजानु गृध्रावलीनकम् ॥ ५५९ ॥ सूच्यर्धसूचिनी सूचीविद्धं च हरिणप्लुतम् । परिवृत्तं दण्डपादं मयूरललितं ततः ।। ५६०॥ प्रेढोलितं संनतं च सर्पितं करिहस्तकम् । प्रसर्पितमपक्रान्तं नितम्बस्खलिते तथा ।। ५६१ ॥ सिंहविक्रीडितं सिंहाकर्षितं चावहित्थकम् । निवेशमेडकाक्रीडननितोपसृतानि च ॥ ५६२ ॥ तलसंघट्टितोत्तविष्णुक्रान्तानि लोलितम् । मदस्खलितसंभ्रान्तविष्कम्भोद्घट्टितानि च ॥ ५६३ ॥ शकटास्योरूद्वत्ताख्ये वृषभक्रीडितं ततः । नागापसर्पितमथो गमावतरणं तथा ॥ ५६४ ॥ इत्यष्टोत्तरमदिष्ट करणानां शतं मया। गतिस्थितिप्रयोगाणामानन्त्यात्करणान्यपि ॥ ५६५ ॥ अनन्तान्यङ्गहारेषु' त्वियत्तां चोपयोगिता। इति करणानामुद्देशः । वृश्चिकरेचितमित्यर्थः । इति करणानामष्टोत्तरशतमुद्दिष्टमित्युक्त्या कथमियन्तीति परिच्छेद इत्याशङ्कां परिहरति-गतिस्थितीत्यादि । गतिस्थितिप्रयोगाणामिति । गतयश्चार्यः; स्थितयः स्थानकानि, तासां प्रयोगाः पौर्वापर्यविपर्ययाभ्यामनन्ता भवन्ति । तेषामानन्त्याद्यद्यपि करणान्यप्यनन्तानि भवन्ति, तथाप्यङ्गहारेषु वक्ष्यमाणेषु स्थिरहस्तादिग्वियतामष्टोत्तरशतकरणा क्रियन्तामुपयोगिता। Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy