________________
१९०
संगीतरत्नाकरः पार्धद्वयं पुरस्ताच पश्चादूर्ध्वमधः शिरः । ललाटकर्णस्कन्धोरोनाभयः कटिशीर्षके ॥ ५४६ ॥ ऊरुद्वयं च हस्तानां क्षेत्राणीति चतुर्दश ।
इति चतुर्दश हस्तक्षेत्राणि | करणैः करणातीतोऽनङ्गहारोऽङ्गहारकैः ॥ ५४७ ॥ यः स्थाणू रोदसीरङ्गे नृत्यतीशं नमामि तम् ।
(सु०) करकर्माण्याह-धूननमिति । धूननम , श्लेषः, विश्लेषः, कम्पः, रक्षणम् , मोक्षणम् , परिग्रहः, निग्रहः, उत्कर्षः, आकृष्टिः, विकृष्टिः, ताडनम् , लोलनम् , छेदः, भेदः, स्फोटनम् , मोटनम् , विसर्जनम् , आह्वानम् , तर्जन. मिति विंशतिरित्यन्वर्थानि करकर्माणि नृत्तज्ञैः परिभाषितानि ॥ ५४३-५४५॥
इति विंशति: करकर्माणि । (क०) अथ करक्षेत्राण्याह-पार्श्वद्वयमित्यादि ॥५४६, ५४६-॥
_ इति चतुर्दश हस्तक्षेत्राणि । (सु०) हस्तक्षेत्राण्याह-पार्श्वद्वय मिति । पुर:पार्श्वम् , पश्चात्पार्श्वम् , ऊर्ध्वमधः शिरः, ललाटम् , कर्णी, स्कन्धौ, उ':, नाभिः, कटीशीर्षम् , ऊरुद्वयमिति चतुर्दश हस्तक्षेत्राणि, हस्तस्थानानीत्यर्थः ॥ ५४६, ५४६- ॥
इति चतुर्दश हस्तक्षेत्राणि । (क०) अथ नृतकरणानि लक्षयिप्यंस्ताण्डवनृतप्रवर्तकमीशं प्रणमति-करणेरित्यादि । करणातीतः करणानि चक्षुरादीनि तान्यतीत्य वर्तत इति स तथोक्तः । इन्द्रियाणाम विषयभूत इत्यर्थः । अनङ्गहारः ; अनझं कामं हरतीत्यत्रार्थे उद्यमनविवक्षायां "कर्मण्यण " (अष्टाध्यायी ३-२-१) इति सामान्येन.णि कृतेऽनङ्गहार इति भवति तारहार इति यथा । स्थाणुः स्थिरो
Scanned by Gitarth Ganga Research Institute