SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८० संगीतरत्नाकर: पतितायं चोद्धताग्रं भूमिलग्नमथोद्धृतम् ।। ५२५ ।। कुश्चन्मध्यं तिरश्वीनमिति षोढा तलं विदुः । इति करणगतानि पञ्चाङ्गानि । इति पाणिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि । विवृणोति मनोवृत्ति मुखरागो रसात्मिकाम् ।। ५२६ । अतो रसोपयोगित्वान्मुखरागोऽभिधीयते । (क०) चरणतलभेदानाह - पतिताग्रं चेत्यादि ॥ - ५२५,५२५-॥ इति करणगतानि पञ्चाङ्गानि । इति पाणिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि । (सु०) चरणतलं लक्षयति - पतिताप्रमिति । पतिताग्रम्, उद्धृताग्रम्, भूमिलग्नम्, उद्धृतम्, कुञ्चन्मध्यम्, तिरश्चीनमिति चरणतलं षडिधमाहुः ॥ - ५२५, ५२५- ॥ इति करणगतानि पञ्चाङ्गानि । इति पाष्णिगुल्फाङ्गुलितलानि करचरणोपाङ्गानि । (क० ) अथोद्देशक्रमेण मुखरागं लक्षयितुमाह - विवृणोतीति । मुखरागस्य नाटयोपयोगद्वारा नृतेऽप्युपयोगं दर्शयति- रसात्मिकां मनोवृत्ति वितृणोतीति । रसात्मिकां शृङ्गारादिरूपाम् ; अनेन मनोवृत्तिरित्यादि स्थायिस्वरूपत्वं, निर्वेदादिसंचारिभावरूपत्वं चावगन्तव्यम् । तेषामपि रसेव्वन्तर्भावात् । अत एवास्य मुखरागस्य नृत्तेऽप्युपयोगो द्रष्टव्यः । नृतस्याभिनयोपेतत्वाभावेऽपि क्वचिन्नाट्याङ्गतया रसव्यञ्जकत्वाङ्गीकारात् क चित्स्वातन्त्र्येण गीतादिषु प्रयोगेऽपि गीते वाक्यार्थभूतरसव्यञ्जकत्वाच्च नृत्ते - sपि मुखरागस्योपयोगो द्रष्टव्यः । अतोऽत्र नृत्तप्रकरणे मुखरागस्य संगत्यभावो न शङ्कनीयः ॥ -५२६, ५२६- ॥ " Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy